________________
नवाङ्गी
वृ० पृ० श्रीज्ञाता
धर्मकथा
॥ ४६ ॥
रूपकाणि येषु ते तथा तान्, प्रसादीयान् चित्ताह्लादकान् - दर्शनीयान् यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्-मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान् एकं महद्भवनमिति । अथ भवनप्रासादयोः को विशेषः १, उच्यतेभवनमायामापेक्षया किश्चिदन्यूनोच्छ्रायमानं भवति, प्रासादस्तु आयामद्विगुणोच्छ्राय इति । अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिताः शालभञ्जिकाः - पुत्रिका यस्मिन् तत्तथा, अभ्युद्गता-सुकृता वज्रस्य वेदिका - द्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभिः रचिताभी रतिदाभिर्वा शालभञ्जिकाभिः सुश्लिष्टाः संबद्धाः विशिष्टा लष्टाः संस्थिताः प्रशस्ताः वैडूर्यस्य स्तम्भा यत्र तत्तथा, नानामणिकनकरत्नैः खचितं च उज्ज्वलं च यत्तत्तथा ततः पदत्रयस्य कर्मधारयः; 'बहुसम'त्ति-अतिसमः सुविभक्तो निचितो - निबिडो रमणीयश्च भूमागो यत्र तत्तथा, ईहामृगवृषभ तुरगनरमकरविहगव्यालकिन्नररुरुसरभ च मरकुञ्जरवन लतापद्मलता भक्तिचित्रमिति यावत्करणात् दृश्यं तथा स्तम्भोद्गतया - स्तम्भो परिवर्तिन्या वज्रस्य वेदिकया, परिगृहीतं-परिवेष्टितमभिरामं च यत्तत्तथा, 'बिज्जा हरजमलजुयल जंत जुत्तं' त्ति-विद्याधरयो - र्यत् यमलं समश्रेणीकं युगलं-द्वयं तेनैव यन्त्रेण-संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तं यत्तत्तथा, आर्षत्वाच्चैवंविधः समास इति, तथा अर्चिषां-किरणानां सहस्रैर्मालनीयं- परिवारणीयं, 'भिसमाणं' ति-दीप्यमानं, भिन्भिसमाणं' ति - अतिशयेन दीप्यमानं चक्षुःकर्तृलोकने-अवलोकने दर्शनं सति लिशतीव- दर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तत्तथा, नानाविधाभिः पञ्चवर्णाभिर्घण्टाप्रधानपताकाभिः परिमण्डितमग्रशिखरं यस्य तत्तथा धवल मरीचिलक्षणं, कवचं- कङ्कटं तत्समूहमित्यर्थः, विनिर्मुञ्चन् - विक्षिपन् सहशीनां शरीरप्रमाणतो मेघकुमारापेक्षया परस्परतो वा सहग्वयसां समान कालकृतावस्थाविशेषाणां, सहकृत्व चां सदृशच्छवीनां
|||*
१-भी
उत्क्षि
प्वाध्य०
मेघकुमार
प्रासादादिवर्णनम्
॥ ४६ ॥