SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ SHEKH &ा विधिमिा-मेदैः प्रचार:-प्रवृत्तिर्यस्याः सा तथा तस्या, देशीभाषायां-देशमेदेन वर्णावलीरूपायां, विशारदः-पण्डितो यः स तथा, गीतिरतिगंधर्वे-गीते नाट्ये च कुशलः, हयेन युध्यत इति हययोधी, एवं स्थयोधी, बाहुयोधी, बाहुभ्यां । प्रमृद्गातीति बाहुप्रमर्दी; साहसिकत्वाद्विकाले चरतीति-विकालचारी । 'पासायवडिसएत्ति-अवतंसका इवावतंसकाः | शेखराः प्रासादाश्च तेऽवतंसकाश्च प्रासादावतंसका प्रधानप्रासादा इत्यर्थः, 'अम्भुग्गयमूसिय'त्ति-अभ्युद्गतोच्छ्रितान् अत्युच्चानित्यर्थः, अत्र च द्वितीयाबहुवचनलोपो दृश्यः, 'पहसिएविव'त्ति-प्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः,-तथा-मणिकनकरत्नानां भक्तिभिः-विच्छित्तिभिश्चित्रा ये ते तथा वातोद्धता याः विजयसूचिका वैजयन्त्यभिधानाः पताकाः छत्रातिच्छत्राणि च तैः कलिता येते तथा, ततः कर्मधारयस्ततस्तान : तुङ्गान् कथमिव ?,-गगनतलममिलकस्यच्छिस्वरान , 'जालंतररयणपंजरुमिल्लियव्य'त्ति-जालान्तेषु-मत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा, ततो द्वितीयाबहुवचनलोपो दृश्यः पञ्जरोन्मीलितानि च-पृथक्कृतपञ्जराणि च प्रत्यग्रच्छायानित्यर्थः; अथवा-जालान्तररत्नपञ्जरैः-तत्समुदायविशेषेरुन्मीलितानीवोन्मीलितानि चोन्मीषितलोचनानि चेत्यर्थः, मणि| कनकस्तूपिकानिति-प्रतीतं, विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान् , तिलकैः पुण्डैः, रत्नैः-कर्केतनादिभिः, अर्द्धचन्द्रः-सोपानविशेषैः, भित्तिषु वा-चन्दनादिमयैरालेख्यैः अर्चिता ये ते तथा तान् , पाठान्तरेण-'तिलकरत्ना चन्द्रचित्रान्'; नानामणिमयदामालङ्कृतान् अन्तर्बहिश्च श्लक्ष्णान-मसृणानू तपनीयस्य या रुचिरा वालुका तस्याः प्रस्तर:-प्रतरः प्राङ्गणेषु येषां ते तथा तान् , सुखस्पर्शान् , सश्रीकाणि-सशोभनानि रूपाणि LFISTRAGRA AHARAS -
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy