SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ SSIFA नवाङ्गीवृ०० श्रीज्ञाताधर्मकथाने १-श्रीउत्क्षिप्ताध्य 'मेषकुमार ॥४५॥ ACCASIOS चिन्तितं च-अपरेण हृदि स्थापितं, प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभिः, स्वदेशे यन्नेपथ्य-परिधानादिरचना तद्वगृहीतो वेषो यकाभिस्तास्तथा ताभिः, निपुणानां मध्ये कुशलायास्तास्तथा ताभिः, अत एव विनीताभियुक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां-बद्धितकरिंथनरुन्धनप्रयोगेण नपुंसकीकृतानामन्तःपुरमहल्लकानां, 'कंचुइज्जत्ति-कंचुकिनामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा, महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तो यः स तथा, हस्ताद्धस्तं-हस्तान्तरं संहियमाणः, अङ्कादक-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः, परिगीयमानः, तथाविधबालोचितगीतविशेषैः उपलाल्यमानः, क्रीडादिलालनया, पाठान्तरे तु 'उवणचिजमाणे २, उवगाइजमाणे २, उवलालिजमाणे २, अवमूहिजमाणे २, आलिङ्गथमान इत्यर्थः, 'अवयासिन्जमाणे २, कथञ्चिदालिङ्गयमान एव, 'परिवंदित्रमाणे २, स्तूयमान इत्यर्थः, 'परिचुंबिजमाणे २ इति प्रचुम्ब्यमानः, चंक्रम्यमाणः, निर्वाते-निर्व्याघाते, 'गिरिकन्दरे'त्ति-गिरिनिकुञ्ज आलीन इव चम्पकपादपः सुखं सुखेन वर्द्धते स्मेति, प्रचङ्कमणकं-भ्रमणं, चूडापनयनं-मुण्डनं 'महया इड्डीसकारसमुदएणं'ति-महत्या ऋख्या एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, 'अर्थत' इति व्याख्यानतः, 'करणत:'-प्रयोगतः, 'सेहावए'त्ति-सेधयति-निष्पादयति, शिक्षयति-अभ्यासं कारयति; ' नवंगसुत्तपडियोहिए 'त्ति-नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिढका त्वगेका मनश्चकं सुप्तानीव सुप्तानि-पाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-'सोत्ताई नव मुत्ता' इत्यादि, अष्टादश विधिप्रकारा:-प्रवृत्तिप्रकाराः अष्टादशभिर्वा नामस्थापनम्। LAFAIRITERARE ॥ ४५॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy