SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ कर CARSA | निवृत्ते-कृते शुचीनां जातकर्मणां करणे; 'बारसाहे दिवसे'त्ति-द्वादशाख्ये दिवसे इत्यर्थः, अथवा-द्वादशानामा समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते तत्र तथा, मित्राणि-सुहृदा, ज्ञातयो-मातापितृमात्रादयः, निजकाःस्वकीयाः पुत्रादयः, स्वजना:-पितृव्यादयः, संबन्धिन:-श्वशुरपुत्रश्वशुरादयः, परिजनो-दासीदासादिः, बलं चसैन्यं च, गणनायकादयस्तु प्रागभिहिताः, 'महइमहालईत्ति-अतिमहति, आस्वादयन्तावास्वादनीयं, परिमाजयन्तौ अन्येभ्यो यच्छन्तौ मातापितराविति प्रक्रमः, 'जेमिय'त्ति-जेमितौ भुक्तवन्तौ, 'भुत्तुत्तर'त्ति-भुक्तोत्तरं-मुक्तोत्तरकालं, 'आगय'त्ति-आगतावुपवेशनस्थाने इति गम्यते, 'समाणे'त्ति-सन्तो, किंभृतौ भृत्वेत्याह ?, आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिकथाद्यपनयनेन अत एव परमशुचिभूताविति, 'अयमेयारूवे'त्ति-इदमेतद्रूपं गौणं, कोऽर्थो १,-गुणनिष्पन्न नामधेयं-प्रशस्तं नाम मेघ इति । क्षीरधाच्या-स्तन्यदायिन्या, मण्डनधाच्या-मण्डिकया, मज्जनधान्या-नापिकया, क्रीडनधात्र्या-क्रीडनकारिण्या, अङ्कधात्र्या-उत्सङ्गस्थापिकया, कुब्जिकाभिः-वक्रजङ्घाभिः, चिलातीभिः-अनार्यदेशोत्पन्नाभिः, वामनाभि:-इस्वशरीराभिः, वटभाभिः-महत्कोष्ठाभिः, बर्बरीभिः-चर्बरदेशसंभवामिः, बकुसिकामियोनकाभिः, पल्हविकाभिः, ईसिनिकाभिः, घोरुकिनिकाभिः, लासिकाभिः, लकुसिकाभिर्द्राविडीभिः, सिंहलीभिः, आरबीभिः, पुलिन्द्रीभिः, पक्कणीभिः, बहलीभिः, मुरुंडीभिः, शबरीभिः, पारसीभिः, 'नानादेशीभिः'-बहुविधाभिः अनार्यप्रायदेशोत्पन्नाभिरित्यर्थः; विदेशः-स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य परिमण्डिकाभिः, इङ्गितेन-नयनादिचेष्टाविशेषेण, १ महतिमहालए । KAHESAIXIISRAESS
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy