________________
नवाङ्गी१० वृ० श्रीज्ञाताधर्मकथाङ्गे
१-श्रीउरिक्षप्ताध्य. राजगृहनगरवर्णनम्।
AARAK
देवाणुप्पिया ! समणे भगवं महावीरे, आइकरे, तित्थकरे, इहमागते इह संपत्ते, इह समोसढे; इह चेव रायगिहे नगरे, गुणसिलए चेहए; अहापडि जाव विहरति ।। सूत्रम्-२४ ॥ ___'मत्थयधोयाउ'त्ति-धौतमस्तकाः करोति अपनीतदासस्वा इत्यर्थः, पौत्रानुपुत्रिकां पुत्रपौत्रादियोग्यामित्यर्थः, 'वृत्ति'जीविका कल्पयतीति । 'रायगिहं नगरं आसिय'-इह यावस्करणादेवं दृश्यं, 'आसियसंमजिओवलित-आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तं गोमयादिना, केषु ?,-'सिंघाडगतिगचउक्कचञ्चरचउमुहमहापहपहेसुः ।
तथा-सित्तसुइयसंमट्ठरत्थंतरावणवीहियं'-सिक्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन है रथ्यान्तराणि आपणवीथयश्च हट्टमार्गा यस्मिन् तत्तथा, 'मंचातिमंचकलित'-मञ्चा-मालकाः प्रेक्षणकद्रष्ट्रजनोपवेशन
निमित्तं अतिमश्चा:-तेषामप्युपरि ये तैः कलितं, 'णाणाविहरागभूसियज्झयपडागमंडियं'-नानाविधरागैः कुसुम्भादिभिर्भूषिता ये ध्वजाः सिंहगरुडादिरूपकोपलक्षितबृहत्पटरूपाः पताकाश्च तदितरास्ताभिमंडितं, 'लाउल्लोइयमहियंलाइयं-छगणादिना भूमौ लेपनं उल्लोइयं-सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महित-पूजितं ते एव वा महित-पूजनं यत्र तत्तथा, 'गोसीससरसरत्तचंदणदहरदिन्नपंचंगुलिसलं'-गोशीर्षस्य-चन्दनविशेषस्य सरसस्य च-रक्तचन्दनविशेषस्यैव
दर्दरेण-चपेटारूवेण दत्ता-न्यस्ताः, पञ्चाङ्गुलयस्तला-हस्तका यस्मिन् कुड्यादिषु तत्तथा, 'उवचियचंदणकलसं'है उपचिता-उपनिहिता, गृहान्तःकृतचतुष्केषु चन्दनकलशा:-मङ्गल्यघटाः, यत्र तत्तथा; 'चंदणघडसुकयतोरणपडिदु| वारदेसभाग'-चंदनघटाः सुष्ठुकताः तोरणानि च प्रतिद्वारं द्वारस्य २, देशभागेषु यत्र तत्तथा; 'आसत्तोसत्तविपुल
AFRAबाजाAFRICA
॥४३॥