________________
RECIPSCIENCAIज
वन्ति, परिलम्बमानानि-प्रलम्बमानानि, नरमकरतुरगमुखशतेभ्यो-मुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसृ. तानि, उद्गीर्णानीव-वान्तानीवोद्गीर्णानि यानि प्रवरमौक्तिकानि-वरमुक्ताफलानि, तैर्विराजमान-शोभमानं यन्मुकुटं तच्चेति द्वन्द्वः, तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा; तथा-'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणजणियखोलमाणवरललितकुंडलुजलियअहियआभरणजणियसोभे'-अनेक मणिकनकरत्ननिकरपरिमण्डितभागे, भक्तिचित्रे-विच्छित्तिविचित्रे, विनियुक्त-कर्णयोर्निवेशिते गमनगुणेन-गतिसामर्थेन जनिते-कृते, प्रेढोलमाने-चञ्चले ये वरललितकुंडले ताभ्यामुज्वलितेन-उद्दीपनेनाधिकाम्यामाभरणाम्यामुज्वलिताधिकss. भरणैश्च कुण्डलव्यतिरिक्तैर्जनिता शोभा यस्य स तथा; तथा-'गयजलमलविमलदसणविरायमाणरूवे'-गतजलमलविगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमान रूपं यस्य स तथा ततः कर्मधारयः, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्तिकपौर्णमास्यां शनीश्वराङ्गारकयोः-प्रतीतयोरुज्ज्वलित:-दीप्यमानः सन् यो मध्य भागे तिष्ठति स तथा, नयनानन्दो-लोचनाहादकः शरच्चन्द्र इति, शनीश्वरांगारकवत्कुण्डले चन्द्रवञ्च तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते-दिव्यौषधीनां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यदर्शन-रूपं तेनाभिरामो-रम्यो यः स तथा, ऋतुलक्ष्म्येव-सर्वर्तुककुसुमसंपदा समस्ता-सर्वा समस्तस्य बा जाता शोभा यस्य स तथा, प्रकृष्टेन गन्धेनोद्भूतेन-उद्गतेनाभिरामो यः स तथा, मेरुरिव नगवरः विकुर्वितविचित्रवेषः सबसौ वर्तते इति; 'दीवसमुदाण'ति-द्वीपसमुद्राणां, 'असंखपरिमाणनामधेजाणं'ति-असंख्यं परिमाणं नामधेयानि च येषां ते तथा तेषां 'मध्यकारेण'-मध्यमागेन, 'बीइवयमाणे'
I
CAL