SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी वृ० वृ० श्रीज्ञाता धर्मकथाङ्गे 11 36 11 'अभयकुमार मणुकंपमाणे 'त्ति - अनुकम्पयन् हा !, तस्याष्टमोपवासरूपं कष्टं वर्त्तते इति विकल्पयन्नित्यर्थः, पूर्वभवे - पूर्वजन्मनि जनिता-जाता या स्नेहात्प्रीतिः प्रियत्वं न कार्यवशादित्यर्थः, बहुमानश्च - गुणानुरागस्ताभ्यां सकाशात्, जातः शोकः - चित्तखेदो विरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीति बहुमानजातशोकः, वाचनान्तरे - 'पूर्वभव जनित स्नेहप्रीतिबहुमानजनितशोभ' स्तत्र शोभा - पुलकादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात्, पुण्डरीकता च विमानानां मध्ये उत्तमत्वात्, 'रयणुत्तमाउ'त्ति रत्नोत्तमात् रचनोत्तमाद्वा; 'घरणीतलगमनाय' - भूतलप्राप्तये, त्वरितः शीघ्रं, संजनितःउत्पादितो, गमनप्रचारो - गतिक्रियावृत्तिर्येन स तथा; वाचनान्तरे - ' धरणीतलगमन संजनितमनःप्रचार' इति प्रतीतमेव, व्याघूर्णितानि - दोलायमानानि यानि विमलानि कनकस्य, प्रतरकाणि च प्रतरवृत्तरूपाणि आभरणानि चकर्णपूरे मुकुटं च-मौलिः, तेपामुत्कटो य आटोपः-स्फारता तेन दर्शनीयः- आदेयदर्शनो यः स तथा, तथा - अनेकेषां मणिकनकरत्नानां 'पहकर 'त्ति-निकरस्तेन परिमण्डितो - भक्तिभिचित्रो, विनियुक्तकः-कट्यां निवेशितो, 'मणु'ति-मकारस्य प्राकृतशैली प्रभवत्वात्, योऽनुरूपो गुणः -कटिसूत्रं तेन जनितो हर्षो यस्य स तथा, प्रेङ्खोलमानाभ्यां - दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्वलितम् - उज्वलीकृतं वदनं मुखं तस्य यो गुणः - कान्तिलक्षणः तेन जनितं सौम्यं रूपं यस्य स तथा । वाचनान्तरे- पुनरेवं विशेषणत्रयं दृश्यते । "वाघुन्नियविमलकणगपयरगवडेंसग पकंपमाणचललो लललियपरिलंबमाणनर मगर तुरगमुहसयविणिग्गउग्गिन्नपवर मोत्तियविरायमाणमउडुक्कडाडोवदरिस णिजे " - तत्र व्याघूर्णितानि चञ्चलानि विमलकनकप्रतरकाणि च अवतंसके च प्रकम्पमाने चललोलानि - अतिचपलानि, ललितानि - शोभा 181 SEX १- उत्क्षि प्ताध्य० पूर्वसंगति कदेवगमनप्रवृत्ति- ' वर्णनम् । ॥ ३८ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy