SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ असंदिग्धम्-असंदेहं, 'एयम8'ति-प्रयोजनं दोहदपूरणलक्षणमिति भावः । 'अंतगमणं गमिस्सामिपति-पारगमनं गमिष्यामीति, 'चुल्लमाउयाए'त्ति-लघुमातुः, 'पुव्वसंगइय'त्ति-पूर्व-पूर्वकाले संगतिः-मित्रत्वं येन सह स पूर्वसंगतिका, महर्द्धिको-विमानपरिवारादिसंपदुपेतत्वाधावत्करणादिदं दृश्य, महाद्युतिका-शरीराभरणादिदीप्तियोगात् , महानुभागोवैक्रियादिकरणशक्तियुक्तत्वात, महायशाः-सत्कीर्तियोगात् , महाबल:-पर्वताद्युत्पाटनसामोपेतत्वात् , महासौख्योविशिष्टसुखयोगादिति, 'पोसहसालाए'ति-पौषधं-पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेष:-पौषधशाला तस्यां, पौषधिकस्य-कृतोपवासादेः व्यपगतमालावर्णकविलेपनस्य, वर्ण-चन्दनं, तथा-निक्षिप्तं-विमुक्तं, शस्त्रं-क्षुरिकादि मुशलं च येन स तथा, तस्य एकस्य-आन्तरव्यक्तरागादिसहायवियोगात् , अद्वितीयस्य तथाविधपदात्यादिसहायविरहात् , 'अट्ठमभत्तंति-समयभाषयोपचासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति-पूर्यमाणे परिपूर्णप्राय इत्यर्थः, 'वेउब्वियसमुः ग्याएण'मित्यादि, वैक्रियसमुत्पातो वैक्रियकरणार्थो जीवव्यापारविशेषः, तेन समुपहन्यते-समुपहतो भवति, समुपहन्ति वाक्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः तत्स्वरूपमेवाह-'संखेज्जाई' इत्यादि, दण्ड इव दण्ड:ऊधि आयतः शरीरवाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह- तद्यथा-रत्नानां-कर्केतनादीनां संबन्धिनः १, तथा वैराणां २, वैडूर्याणां ३, लोहिताक्षाणां ४, मसारगल्लाणां ५, हंसगर्भाणां ६, पुलकानां ७, सौगन्धिकानां ८, ज्योतीरसानां ९, अङ्कानां १०, अञ्जनानां ११, रजताना १२, जातरूपाणां १३, अञ्जनपुलकानां १४, स्फटिकानां १५, रिष्ठानां १६; किमत आइ-यथा बादरान्-अपारान् , यथा सूक्ष्मान्-सारान् , ततो चैक्रियं करोति; CREATIOCAFRICANAYE%
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy