SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सुहंसुहेणं परिवहति ॥ सूत्रम्-१९ ॥ 'सए णमित्यादि, 'अविणिजमाणंसित्ति-दोहदे अविनीयमाने-अनपनीयमाने सति, असंप्राप्तदोहदा मेघादीनामजातत्वात् असंपूर्णदोहदाः, तेषामजातत्वेनैवासंपूर्णत्वात् , अत एव असन्मानितदोहदा तेषामननुभवनादिति; ततः शुष्का मनस्तापेन शोणितशोषात् , 'भुक्ख'त्ति-बुभुक्षाक्रान्तेव अत एव निर्मासा, 'ओलुग्ग'त्ति-अवरुग्णा-जीर्णेव कथमित्याह'ओलग्गति अवरुग्णमिव-जीर्णमिव शरीरं यस्याः सा तथा, अथवा-अबरुग्णा चेतसा अबरुग्णशरीरा तथैव प्रमलित| दुर्वला-सानभोजनत्यागात , क्लान्ता-ग्लानीभूता, 'ओमंथिय'त्ति-अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा, पांडुकितमुखी-दीनास्येव विवर्ण वदनं यस्याः सा तथा, क्रीडा-जलक्रीडादिका, रमणमक्षादिभिः तक्रियां च परिहापयन्ती, दीना-दुःस्था दुःस्थं मनो यस्याः सा तथा, यतो निरानन्दा उपहतो मनसः संकल्पा-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् 'करतलपल्हत्थमुही अज्झाणोवगया झियाइ'त्ति-आध्यानं ध्यायतीति, 'नो आढाइत्ति-नाद्रियते-नादरं करोति, नो परिजानाति-न प्रत्यभिजानाति विचित्तत्वात , 'संभंताउत्ति-आकुलीभृताः, शीघ्रमित्यादीनि चत्वार्यकार्थिकानि अतिसंभ्रमोपदर्शनार्थ; 'जेणेवेत्यादि, यत्र धारिणी देवी तत्रोपागच्छति, स्मागत्य चावरुग्णादिविशेषणां धारणी देवीं पश्यति । वाचनान्तरे तु-'जेणेव धारणीदेवी तेणेवेत्यतः पहारेत्थ गमणाए' इत्येतदृश्यते । तत्र-'पहारेत्थ '-संप्रधारितवान्-विकल्पितवानित्यर्थः, गमनाय-गमनार्थ; तथा-तए णं से सेणिए राया जेणेव १°स्मोपागल्य अ। HAREाशाॐॐEX
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy