________________
ICROSHAASHRSCIE
डकमुरवमुइंगदुंदुहिनिग्घोसनाइयरइवेणं'-तत्र शङ्कादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादितः शब्दो नादितंध्वनिमात्रमेतद्वयलक्षणो यो रवः स तथा तेन, 'सिंघाडेत्यादि,-सिंघाडकादीनामयं विशेषः, सिंघाडकं-जलजबीजं फलविशेषः, तदाकृतिपथयुक्तं स्थानं सिंघाटकं त्रिपथयुक्तं स्थानं-त्रिकं, चतुष्पथयुक्तं-चतुष्कं, त्रिपथमेदि चत्वरं-चतुमुख-देवकुलादि, महापथो-राजमार्गः, पथ:-पथमात्रं, तथा आसिक्तं-गन्धोदकेनेषसिक्तं सकृद्वा सिक्तं सिक्तं त्वन्यथा शुचिक-पवित्रं, संमार्जितम्-अपहृतकचवरं, उपलिप्तं च गोमयादिना यत्तत्तथा यावत्करणादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः, एवंभूतं नगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनां लताः, सहकारादिलता वृक्षाः-सहकारादयः, गुल्मा वंशीप्रभृतयः, वल्लया-त्रपुष्यादिकाः एतासां ये, गुच्छा:-पल्लवसमूहास्तै यत् , 'ओच्छवियंति-अवच्छादितं वैभारगिरेर्ये कटका:-देशास्स्तेषां ये पादा-अधोमागास्तेषां यन्मूलं-समीपं तत्तथा तत्सर्वतः समन्तात् , 'आहिंडन्ति'त्तिआहिण्डन्ते, अनेन चैवमुक्तव्यतिकरभाजां सामान्येन स्त्रीणां प्रशंसाद्वारेणात्मविषयोऽकालमेघदोहदो धारिण्याः प्रादुरभृदि-| त्युक्तम् , वाचनान्तरे तु-'ओलोएमाणीओ २, आहिंडेमाणीओ २, डोहलं विणिति'-विनयन्त्यपनयन्तीत्यर्थ 'तं जति णं अहमवि मेहेसु अन्भुग्गएसु जाव डोहलं विणेजामि'-विनयेयमित्यर्थः, संगतश्चायं पाठ इति ॥ १३ ॥
उक्तदोहदाप्राप्तौ यत्तस्याः संपन्नं, तदाहतए णं सा धारिणी देवी, तंसि दोहलंसि अविणिजमाणसि; असंपन्नदोहला, असंपुन्नदोहला, असं
SHAYRECHITIHASHIBIRH
+