SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ॐ मेघाच्छादनाद, पाठान्तरेण परिभ्रामिता:-कृतप्रभादंशाः, चन्द्रसूरग्रहाणां यस्मिन् प्रनष्टा च नक्षत्रतारकप्रभा यस्मिस्तत्तथा, तस्मिन्नम्बरतले इति योगः, इन्द्रायुधलक्षणो बद्ध इव बद्धः, चिहपहो-ध्वजपटो यस्मिस्तत्तथा तत्राम्बरतले-गगने उडीनबलाकापतिशोभमानमेघवृन्देऽम्बरतले इति योगः, तथा-कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे, संप्राप्ते-उक्तलक्षण योगेन समागते प्रावृषि काले; किंभृता अम्मयाओ?;-इत्याह-'पहायाओं इत्यादि, किं ते इति किमपरमित्यर्थः, वरी पादप्राप्तनू पुरौ मणिमेखला-रत्नकाञ्ची हारश्च यासा तास्तथा रचितानि-न्यस्तानि, उचितानि-योग्यानि, कटकानि-प्रतीतानि, खुडकानि च-अङ्गुलीयकानि यासां तास्तथा विचित्रैर्वरवलयैः स्तम्भिताविव स्तम्भितौ भुजौ यासा तास्तथा, ततः पदत्रयस्य कर्मधारयः। तथा-"कुंडलोजोतितानना बरपायपत्तनेउरमणिमेहलाहाररहयउचियकडगखुडुयएगावलिकंठमुरयतिसरयवरवलयहेमसुत्तकुंडलुजोवियाणणाओत्ति-पाटान्तरं तंत्र वरपादप्राप्त नूपुरमणिमेखलाहारास्तथा रचितान्युचितानि कटकानि च खुड्डकानि च एकावली च-विचित्रमणिकृता एकसरिका कण्ठमुरजश्च-आमरणविशेषः त्रिसरकं च वरवलयानि च हेमसूत्रकं च-संकलकं यासा तास्तथा, तथा-कुण्डलोद्योतिताननास्ततो वस्पादप्राप्तन पुरादीनां कर्मधारयः, रत्नविभूषिताङ्गयः नासानिःश्वासवातेनोद्यते यल्लघुत्वात्तत्तथा चक्षुर्हरं दृष्ट्याक्षेपकत्वात् , अथवा-प्रच्छादनीयाङ्गदर्शनाचक्षुर्हरति धरति वा निवर्तयति यावत्वात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थः हयलालाया-अश्वलालायाः सकाशात् , 'पेलव'त्ति-पेलवत्वेन मृदुत्वलघुत्वलक्षणेनातिरेक:-अतिरिक्तत्वं यस्य परिष्यामिताः अ । २ तत्र तु व. । ३ न्युपचितकटकानि अ। stik-II|* नमक -The*%-l
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy