________________
स्वर्णकद्रव्यं शुक्रवार र समा प्रभा येषां ने
पीयकनामा
SECTOR
रुधिरेण-रक्तेन, इन्द्रगोपको-वर्षासु कीटकविशेषस्तेन च समा प्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः। तथा-बहिणोमयूराः, नीलं-रत्नविशेषः, गुलिका-वर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः, पिच्छ-पत्रं, भृङ्ग:-कीटविशेषस्तस्य पत्रंपक्षः, सासको-बीयकनामा वृक्षविशेषः, अथवा-"सामत्ति पाठः, तत्र श्यामा-प्रियङ्गुः" नीलोत्पलनिकर:-प्रतीतः, नवशिरीषकुसुमानि च नवशाडलं-प्रत्यग्रहरितं एतत्समप्रमेषु नीलप्रभेष नीलवर्णेष्वित्यर्थः; तथा-जात्यं-प्रधानं यदञ्जनं-सौवीरकं, भृङ्गमेद:- भृङ्गाभिधानः कीटविशेषः, विदलिताङ्गारो वा; रिष्ठकं-रत्नविशेषः, भ्रमरावली-प्रतीता, गवलगुलीका-महिषशृङ्गगोलिका, कज्जलं-मपी, तत्समप्रमेषु कृष्णेष्वित्यर्थः स्फुरद्विद्युत्काश्च सगर्जिताच ये तेषु, तथा वातवशेन विपुले गगने चपलं यथा भवत्येवं, 'परिसकिरेसुत्ति-परिवष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्रगलित:-क्षरितः प्रचण्डमारुतसमाहतः सन्, 'समोत्थरंत'ति-समवस्तृणंश्च-महीपीठमाक्रामन् उपर्युपरि च सातत्येन त्वरितश्च शीघ्रो यो वर्षों-जलसमृहः स, तथा-तं प्रवृष्टेषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रमा, धाराणां 'पहकरोत्तिनिकरस्तस्य निपातः-पतनं तेन निर्वापितं-शीतलीकृतं यत्तत्तथा तस्मिन् , निर्वापितशब्दाच सप्तम्येकवचनलोपो दृश्या, कस्मिन्नित्याह-मेदिनीतले-भूतले, तथा हरितकानां-इस्वतृणानां यो गणः, स एव कञ्चको यत्राच्छादकत्वात् तत्तथा तत्र, 'पल्लविय'त्ति-इह सप्तमीबहुवचनलोपो दृश्यः, ततः पल्लवितेषु पादपगणेषु तथा वल्लीवितानेषु प्रसृतेषु-जातप्रसरेवित्यर्थः, तथोभतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलत्वेनाकर्दमत्वात् पाठान्तरे नगेषु-पर्वतेषु, नदेषु वा-हदेषु, तथा वैभाराभिधानस्य गिरेः ये प्रपाततटा:-भृगुतटाः, कटकाच-पर्वतैकदेशास्तेभ्यो ये, विमुक्ताः
SACRIFSAJIBITECLASS
ARE