SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी श्रीज्ञाताधर्मकथाङ्गे ॥२८॥ NROSAROK विनयन्तीति योगः; 'अम्मयाओ'त्ति-अम्बाः पुत्रमातरः, त्रिय इत्यर्थः। संपूर्णाः-परिपूर्णाः आदेयवस्तुभिः (सपुण्याः), कृतार्था:-कृतप्रयोजना, कृतपुण्या:-जन्मान्तरोपातसुकृताः; कृतलक्षणा:-कृतफलवच्छरीरलक्षणाः, कृतविभवा:कृतसफलसंपदः, सुलब्धं तासां, मानुष्य-मनुष्यसंबन्धि जन्मनि भवे; जीवितफलं-जीवितव्यप्रयोजनं जन्मजीवितफलं, सापेक्षत्वेऽपि च समासः छान्दसत्वात् , या मेघेषु अभ्युद्गतेषु-अरवदुत्पबेषु सत्सु, एवं सर्वत्र सप्तमी योज्या; अभ्युद्यतेषु-वद्धितुं प्रवृत्तेषु, अभ्युन्नतेषु-गगनमण्डलव्यापनेनोनतिमत्सु, अभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु, सगर्जितेषुमुक्तमहाध्वनिषु, सविद्युत्केषु-प्रतीतं, 'सफुसिएसुत्ति-प्रवृत्तप्रवर्षणबिन्दुषु, सस्तनितेषु-कृतमन्दमन्दध्वनिपु, ध्मातेनअग्नियोगेन यो धौत:-शोधितो रूप्यपट्टो-रजतपत्रकं स तथा; अङ्को-रत्नविशेषः, शङ्खचन्द्रौ-प्रतीतो, कुन्दः-पुष्पविशेषः, शालिपिष्टराशि:-व्रीहिविशेषचूर्णपुञ्जः, एतत्समा प्रभा येषां ते तथा तेषु, शुक्लेवित्यर्थः; तथा-चिकुरो-रागद्रव्यविशेष एव, हरितालो-वर्णकद्रव्यं भेदस्तद्गुटिकाखण्ड, चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते, पद्मरजः-प्रतीतं तत्सम प्रमेषु, वाचनान्तरे-" सेनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते"। तत्र-चिकुरादिभिः सहशाश्च ते पद्मरजासमप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा-लाक्षारसेन सरसेन सरसरक्तकिंशुकेन जपासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पश्चवर्ण भवतीति रक्तत्वेन विशिष्यते; जातिहिङ्गुलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषितः, सरसकुमेन,-नीरसं हि विवक्षितवर्णोपेतं न भवतीति सरसमुक्तं; तथा-उरभ्र:-ऊरणः, शश:-शशकस्तयो १ समस्था० अ। १-श्रीउत्वि|प्ताध्य० धारिण्या: दोहदस्वरूपव्याख्यानम् । AR IrbhaSHASHA +5+%A5% ॥ २८॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy