________________
नवाङ्गी
वृ० वृ०
श्रीज्ञाता
धर्मकथाङ्गे
॥ २६ ॥
वरवस्त्रोत्पत्तिस्थाने उद्गता च-व्यूता तां लक्ष्णानि बहुमक्तिशतानि यानि चित्राणि तेषां स्थानं, तदेवाह - ईहामृगाः- वृकाः, ऋषभाः- वृषभाः, तुरगनर मगरविहगाः प्रतीताः, व्यालाः- श्वापद भुजगाः, किन्नराः - व्यन्तरविशेषाः, रुरवो - मृगविशेषाः, सरभाः- आटव्याः महाकायपशवः, पराशरेतिपर्यायाः चमरा:-आटव्या गावः कुञ्जराः- दन्तिनः, वनलताःअशोकादिलताः, पद्मलता :- पद्मिन्यः एतासां यका भक्तयो - विच्छित्तयस्ताभिश्चित्रा या सा तथा तो, सुष्ठु खचिता| मण्डिता वरकनकेन प्रवरपर्यन्तानाम्-अञ्चल कर्णवर्त्तिलक्षणानां देशभागा - अत्रयवा यस्यां सा तथा तां, आभ्यन्तरिकींआस्थानशालाया अभ्यन्तरभागवर्त्तिनीं - यवनिकां - काण्डपटं, 'अंछावे 'ति - आयतां कारयति, आस्तरकेण प्रतीतेन मृदुकमसूरकेण च प्रतीतेनावस्तृतं यत्तत्तथा, धवलवस्त्रेण प्रत्यवस्तृतम् - आच्छादितं विशिष्टं - शोभनं अङ्गस्य सुखः स्पर्शो .यस्य तत्तथा, अष्टाङ्गम् - अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तं - शास्त्रविशेषः तस्य सूत्रार्थपाठका ये ते तथा तान्, 'विणयेण वयणं पडिसुर्णेति' चि-प्रतिशृण्वन्ति - अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेनेत्याह - 'एव' मिति, थैव यूयं भणथ, तथैव 'देवो'ति; हे देव !, 'तहत्ति' ति नान्यथा आज्ञया-भवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेति, जाव हिययत्ति- 'हरिसवसविसप्पमाणहियया' - स्वानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते, तथा - 'जाव पायच्छित्त'त्ति, 'कयकोउयमंगल पायच्छित्ता :- तत्र कृतानि कौतुकमंगलान्येवेति प्रायश्चित्तानि दुःस्वप्रादिविघातार्थमवश्यं करणीयत्वाद्यैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि, मंगलानि तु सिद्धार्थकदध्यक्ष तदूर्वारादीनि, हरितालिका - दूर्वा, सिद्धार्थका अक्षताश्च कृता मूर्द्धनि यैस्ते, तथा - क्वचित् 'सिद्धत्थयहरियालियाकयमंगल
१-श्री
उत्क्षि
प्ताध्य०
दर्शनीय
यवनि
कादि
वर्णनम् ।
॥ २६ ॥