SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ % A पुष्पजातिः, सत्पुष्पाणि मालान्तेषु शोभा दीयन्ते, मालायै हितानि-माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णां चामराणां प्रकीर्णकानां वाले/जितमहं यस्येति वाक्यं, मङ्गलभूतो जयशब्दः कृत आलोके-दर्शने लोकेन यस्य स तथा, पद तथा-अनेके ये गणनायका:-प्रकृतिमहत्तराः, दण्डनायकाः-तन्त्रपालाः, राजानो-माण्डलिकाः, ईश्वराः-युवराजानो। मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः, तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः, माडम्बिका:-छिन्नमड-18 म्बाधिपाः, कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः, मन्त्रिणः-प्रतीताः, महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः, | हस्तिसाधनोपरिका इति श्रद्धा, गणका:-गणितज्ञाः, भाण्डागारिका इति वृद्धाः; दौवारिकाः-प्रतीहाराः राजद्वारिका या, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, पीठमर्दाः-आस्थाने आसनासीनसेवकाः, वयस्या इत्यर्थः 'नगरं'नगरवासिप्रकृतयो, निगमा:-कारणिकाः, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोसमाङ्गाः, सेनापतया-नृपति. निरूपिताश्चतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थनायकाः, दूताः-अन्येषां गत्वा राजादेशनिवेदकाः, सन्धिपाला-राज्य-15 | सन्धिरक्षकाः, एपो द्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह, न केवलं तत्सहितत्वमेवापि तु तैः समितिसमन्तात् परिवृतः-परिकरित इति, नरपतिर्मजनगृहात प्रतिनिष्क्रामतीति संबन्धः, किंभूतः,-प्रियदर्शना, क इव:धवलमहामेघनिर्गत इव शशी, तथा-'ससिव्व'सि-वत्करणस्यान्यत्र संबन्धस्ततो ग्रहगणदीप्यमानऋवतारागणानां मध्ये इव वर्तमान इति । सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा । 'णाणामणी'स्यादि-यवनिकामाञ्छयतीति संबन्धः, अधिकं प्रेक्षणीय रूपं यस्यां रूपाणि वा यस्यां सा तथा तां, महार्षा चासौ वरपत्तने FECILITARAICHES SSIC
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy