________________
नवाङ्गी
वृ० पू० श्रीज्ञाताधर्मकथा) ॥२५॥
१-श्रीउत्क्षिप्ताध्य. राज्यमान्यालकारादि
प्रतीतमेव यस्य स तथा, पालम्बो-मुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्यामरणविशेषेण सुष्टु कृता शोभा | यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा-कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परि. हितानि अवेयकाङ्गुलीयकानि येन स तथा, तथा-ललिताङ्गके अन्यान्यपि ललितानि कृतानि-न्यस्तानि आभरणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, तथा-नानामणीनां कटकत्रुटिकैः-हस्तवाहाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीका-सशोभो यः स तथा, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृतम्-आच्छादितं तेनैव सुष्टु कृतरतिकं वक्षः-उरो यस्यासो हारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलालीका-मुद्रिका
हल्यामरणानि ताभिः पिङ्गला:-कपिला अङ्गुलयो यस्य स तथा, प्रलम्बेन-दीपेण प्रलम्बमानेन च सुष्टु कृतं पटेनोसरीयम्-उत्तरासङ्गो येन स तथा, नानामणिकनकरत्नैर्विमलानि महार्हाणि-महा_णि, निपुणेन शिल्पिना; 'उविय'त्तिपरिकर्मितानि, 'मिसिमिसंत'त्ति-दीप्यमानानि यानि विरचितानि-निर्मितानि, सुश्लिष्टानि सुगन्धीनि विशिष्टानि-विशेषवन्त्यन्येभ्यो लष्टानि-मनोहराणि, संस्थितानि प्रशस्तानि च आविद्धानि-परिहितानि, वीरवलयानि येन स तथा; सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते । किंबहुना ?,-वर्णितेनेति शेषः, कल्पवृक्ष इव सुष्टु अलङ्कतो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो, राजा तु मकुटादिभिरलङ्कतो विभूषितस्तु वस्त्रादिभिरिति, सह कोरण्टकप्रधानर्माल्यदामभिर्यच्छत्रं तेम ध्रियमाणेन, कोरण्टका1°हुलत्त्वात् आ।
वर्णनम् ।
LOCACROSSARK ROCKh1
RAG4
।।२५॥