SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः, निपुणैः-क्रीडाकुशलैनिपुणशिल्पोपगतैः-निपुणानि-सूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यस्ते तथा तैर्जितपरिश्रमः, व्याख्यान्तरं तु छेकैः-प्रयोगर्दक्षः-शीघ्रकारिभिः, 'पत्तटेहिं 'ति-प्राप्ताथै रधिकृतकर्मणि निष्ठां गतः कुशलैः-आलोचितकारिभिः, मेधाविभिः-सकृच्छ्तदृष्टकमज्ञैः, निपुणैः-उपायारम्भिभिः, निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपरिमर्दनोद्वलनानां करणे ये गुणास्तेषु निर्माते, अस्मां सुखहेतुत्वादस्थिसुखा तया; 'संवाहनये'ति-विश्रामणया अपगतपरिश्रमः, 'समंत-जालाभिरामेति-समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्गृहावयवविशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे 'समत्तजालाभिरामेत्ति-तत्र समस्तैर्जालकैरभिरामो यः स तथा, पाठान्तरेण 'समुत्तजालाभिरामे'-सह मुक्काजालैयों वर्ततेऽभिरामश्च स तथा तत्र । शुभोदकैः-पवित्रस्थानाहतैः, गन्धोदकैः-श्रीखण्डादिमित्रैः, पुष्पोदकैः-पुष्परसमिश्रः, शुद्धोदकैश्च स्वाभाविको, कथं मजितः , इत्याह-'तत्र'-स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः, 'पक्ष्मले' त्यादि,पक्ष्मला-पक्ष्मवती, अत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्ता शाटिका तया लूषितमङ्गं यस्य स तथा, अहतंमलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः, सुमहाघ दृष्यरत्नं-प्रधानवस्त्रं तेन सुसंवृतः-परिगतस्तद्वा सुष्ठु संवृतं-परिहितं येन स तथा, शुचिनी-पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुलमादि विलेपनं यस्य स तथा, आविद्धानिपरिहितानि मणिसुवर्णानि 'येन स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिका, अर्द्धहारो-नवसरिका, त्रिसरिकं च १ यस्य स. अ. आ.। SAFAGARIOSIKHARA
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy