SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी वृ० वृ० श्रीज्ञाता धर्मकथाङ्गे ॥ २४ ॥ स्तस्मिन् कस्मिन्नित्याह- लोके अयमभिप्रायः अन्धकारस्य क्रमेण हानौ लोचेनविषयविकाशः क्रमेणैव भवति, स च विकसन्तं लोकं दर्शयत्येव; अंधकारसद्भावे दृष्टेरप्रसरणे लोकस्य संकीर्णस्येव प्रतिभासनादिति, तथा कमलाकरा - इदादय स्तेषु षण्डानि - नलिनीषण्डानि तेषां बोधको यः तस्मिन् उत्थिते उदयानन्तरावस्थावासे 'सूरे'- आदित्ये, किंभूते ?, - सहस्ररsमौ, तथा - 'दिनकरे'- दिनकरणशीले तेजसा ज्वलति सतीति । 'अट्टणसाल'सि-अड्डनशाला - व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनं च-उल्ललनं, व्यामर्दनं च परस्परेण बाह्वाद्यङ्गमोटनं, मल्लयुद्धं च प्रतीतं, करणानि च- बाहुभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन, परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पक्कं शतेन वा कार्षापणानां यत्पक्कं तच्छतपक्कमेवमितरदपि, सुगन्धित्ररतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकर्पूरपानीयादिग्रहः । किम्भूतैः १, - 'प्रीणनीयैः ' - रसरुधिरादिधातु समताकारिभिर्दीपनीयै:- अग्निजननैः, दर्पणीयै:- बलकरैः, मदनीयैः - मैन्मथ बृंहणीयै म सोपचयकारिभिः, सर्वेन्द्रियगात्रप्रह्लादनीयैः, अभ्यंगैः- स्नेहनैः, अभ्यंगः क्रियते यस्य सोऽभ्यङ्गितः सन् ततस्तैलचर्मणि-तैलाभ्यक्तस्य संबाधना करणाय यच्चर्म तत्तैलचर्म तस्मिन् संवाहिते 'समाणे 'ति - योगः, कैरित्याह ?, - पुरुषैः, कथम्भूतैः ? - प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि अतिको मलानि, तलानि - अधोभागा येषां ते तथा तैः, छेकैः-अवसरज्ञैर्द्विसप्ततिकला पण्डितैरिति च वृद्धाः, दक्षैः - कार्याणामविलम्बितकारिभिः प्रष्ठैः- वाग्मिभिरिति वृद्धव्याख्या, अथवा - प्रष्ठैः - अग्रगामिभिः, कुशलैः - साधुभिः, संबाधनाकर्मणि मेधाविभिः१. लोचनxxxविकाश: अ आ । २ स्थाप्राप्ते अ । ३ "व्यायामयो' अ । ४ हुxxअंगभंग० अ ५ मन्मथवर्धनैः बृ० अ । ६ क्रियते स्म य० अ । SCESSE | १ - उत्क्षि प्ताध्य० प्रभातादिप्रसङ्ग वर्णनम् । ॥ २४ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy