SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ENERASACS प्रत्यर्पयत-कृतां सती निवेदयत । 'कल्ल'मित्यादि,-'कल्ल'मिति-श्वःप्रादुः-प्रकाश्ये, ततः प्रकाशप्रभातायां रजन्यां; 'फुल्लो. ल्प(त्प)लकमलकोमलोन्मीलितं' फुल्लं-विकसितं, तच्च तदुत्पलं च-पचं, फुल्लोत्पलं, तच्च कमलश्च-हरिणविशेषः, फुल्लोत्पलकमलौ, तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिस्तत्तथा तस्मिन् । अथ रजनीविभातानन्तरं पाण्डुरे-शुक्ल, प्रभाते-उपसि, 'रत्तासोगे'त्यादि रक्ताशोकस्य प्रकाशः-प्रभा, स च किंशुकं च-पलाशपुष्पं, शुकमुखं च, गुञ्जा-फलविशेषो रक्तकृष्णस्तदर्ध, बंधुजीवकं च-बन्धूकं, पारापतः-पक्षिविशेषः, तच्चलननयने च; परभृतः-कोकिला, तस्य सुरक्तं लोचनं च; 'जासुमिण' इति-जपा वनस्पतिविशेषः, तस्याः कुसुमं च, ज्वलितज्वलनश्च, तपनीयकलशश्च, हिङ्गुलकोवर्णकविशेषस्तन्निकरश्च-राशिरिति द्वन्द्वः,तत एतेषां यद्रूपं ततोऽतिरेकेण-आधिक्येन, रेहंत'त्ति-शोभमानास्वा स्वकीया,श्री:वर्णलक्ष्मीर्यस्य स तथा तस्मिन् , 'दिवाकरे'-आदित्य अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुरप्रभातकरणलक्षणेन 'उदिते'उद्गते, 'तस्स दिण[कर]करपरंपरावयारपारद्धंमि अंधकारे'त्ति-तस्य-दिवाकरस्य, दिने-दिवसे, अधिकरणभृते, दिनाय वा यः करपरम्पराया:-किरणप्रवाहस्यावतारा-अवतरणं तेन प्रारब्धम्-आरब्धमभिभवितुमिति गम्यते, अपराद्धं वा-विनाशितं दिनकरपरम्परावतारपारब्धं तस्मिन् सति, इह च तस्येति सापेक्षत्वेऽपि समासः तथा-दर्शनादन्धकारे-तमसि, तथा-बालातप एव कुडम तेन खचिते इव जीवलोके सति तथा लोचनविषयस्य-दृष्टिगोचरस्य योऽणुयासोत्ति-अनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंश्चासौ वर्द्धमानो विशदश्च-स्पष्टः स चासो दर्शितश्चेति लोचनविषयानुकाशविशददर्शित SARI||-%AFFAIRS १ जासुमण भ ।
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy