SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ R ४) स्थूलाः, सुश्लिष्टा:-अविसर्वरा विशिष्टा-मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृत्वा, 'विडंबियंति-विवृतं मुखं यस्य स तथा, ततः कर्मधारयस्तं; तथा-'परिकम्मियजच्चकमलकोमलमाईयसोहंतलहउटुं'-परिकम्मित-कृतपरिकर्मा, 'माइयत्तिमात्रावान् परिमित इत्यर्थः, शेषं प्रतीतं; तथा-'रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं'-रक्तोत्पलपत्रमिव मृदुकेभ्यः सुकुमारमतिकोमलं तालु च निर्लालिताना-प्रसादिताया जिह्वा च यस्य स तथा तं, तथा-'महुरगुलिया भिसंतपिंगलच्छं-मधुगुटिकेव-क्षौद्रवतिरिव, 'भिसंतत्ति-दीप्यमाने पिङ्गले-कपिले अक्षिणी यस्य स तथा तं; तथा'मूसागयपवरकणयतावियआवत्तायंतवद्दतडियविमलसरिसनयणं'-मूषागतं मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमनिधमनात् , 'आवत्तायंत'त्ति-आवर्त कुर्वत् तद्वत् तथा वृत्ते च तर्दिते-विवृत्ते विमले च सदृशे च-समाने नयने यस्य स तथा तं; अत्र च 'वत'-इत्येतावदेव पुस्तके दृष्टं संभावनया तु वृत्ततर्दित इति व्याख्यातमिति, पाठान्तरेण तु 'वपडिपुण्णपसत्थनिद्धमहुगुलियपिंगलच्छं' स्फुटश्चायं पाठः। तथा-'विसालपीवरभमरोरूपडिपुण्णविमलखंध-विशालो-विस्तीर्णः, पीवरो-मांसलः, 'भ्रमरोरू.'-भ्रमरा-रोमावर्चा उरवो-विस्तीर्णा यत्र स तथा, परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तं; अथवा-'पडिपुण्णसुजायखधं', तथा-'मिदुविसदसुहमलक्खणपसत्थविच्छिन्नकेसरसडं'-मृद्व्यो विशदा-अविमूढाः सूक्ष्मा लक्षणप्रशस्ताः-प्रशस्तलक्षणा विस्तीर्णाः, कसरसटा:-स्कन्धकेशरजटा यस्य स तथा तं; अथवा-'निम्मलवरकेसरधरं', तथा-'ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं'-उच्छ्रितम्-ऊर्द्ध नीतं सुनिर्मितं सुष्ठु भंगुरतया न्यस्तं सुजातं सद्गुणोपपेततया आस्फोटितं भुवि लाङ्गुलं-पुच्छं येन स तथा तं, सौम्यं ASICALE
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy