SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ SACCHEA5%% विशेषप्रभवं श्रीखण्डं, कालागुरुश्च-कृष्णागरुः, प्रवरकुन्दुरुकं च-चीडाभिधानो गन्धद्रव्यविशेषः, तुरुष्कं च-सिल्हकं, धूपश्चगन्धद्रव्यसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो धूपः, तस्य दद्यमानस्य सुरभियों मघमघायमानः-अतिशयवान् गन्धः उद्धृतः-उद्भूतः-तेनाभिरामम्-अभिरमणीयं यतत्तथा तस्मिन् । तथा-सुष्टु गन्धवराणां-प्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन् , तथा-गन्धवत्तिः-गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्तिस्तद्भूते-सौरम्यातिशयात्तत्कल्पे, तथा-मणिकिरणप्रणाशितान्धकारे; किंबहुना वर्णकेन ?,-वर्णकसर्वस्वमिदं छुत्या गुणैश्च सुरवरविमानं विडम्बयति-जयति यदरगृहकं तत्तथा तत्र, तथा-तस्मिन् तादृशे शयनीये सहालिङ्गनवा -शरीरप्रमाणोपधानेन यत्त त्सालिङ्गनवर्चिकं तत्र, 'उभओ विव्वोयणे'त्ति-उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य, 'विव्वोयणे'त्ति-उपधाने यत्र तत्तथा तस्मिन्, 'दुहओ'त्ति-उभयतः उन्नते मध्ये नतं च तन्निम्नत्वाद्गभीरं च महचानतगम्भीरं, अथवा मध्येन च भागेन तु गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदातः-अबदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन 'सालिसएत्ति सदृशकमतिनम्रत्वायत्तत्तथा तत्र, दृश्यते च हंसतूल्यादिप्वयं न्याय इति । तथा-'उयचियत्ति-परिकर्मितं यत् क्षौमं दुकूलंकार्पासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः-एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, | तथा-आस्तरको मलको नवतः कुशक्तो लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम्-आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव, मलककुशक्तौ तु रूढिगम्पो, नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो-बालोरभ्रस्योर्णायुक्ता कृतिः, सिंहकेसरो-जटिलकम्बलः, तथा-सुष्ठु विरचितं शुचि वा रचितं रजत्राणं-आच्छादनविशेषोऽपरि RAJESIजI SCARROCON
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy