SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी पृ० पृ० श्रीज्ञाता धर्मकथाङ्गे ॥ १३ ॥ मार्गणं च-इह वल्ल्युत्सर्पणादयः स्थाणुधर्मा एवं प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपं, गवेषणं च-इह शरीरकण्डूयनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्यूहमार्गणागवेषणानि तैरर्थशास्त्र - अर्थोपायन्युत्पादग्रन्थे कौटिल्यराज [धा]नीत्यादौ या मतिर्बोधस्तया विशारदः - पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्र मतिविशारदः । तथौत्पत्ति क्यादिकया बुद्ध्या उपपेतो- युक्तः, तत्रौत्पत्तिकी - अदृष्टाश्रुताननुभूतार्थविषयाऽऽकस्मिकी, वैनयिकी - गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या, कर्म्मजा - कृषिवाणिज्यादिकर्माभ्यासप्रभवाः पारिणामिकी- प्रायो वयोविपाकजन्या । तथा-श्रेणिकस्य राज्ञः बहुषु कार्येषु च-भक्तसेवकराज्यादिदानलक्षणकृत्येषु विषयभूतेषु, तथा कुटुम्बेषु च - स्वकीय परकीयेषु विषयभूतेषु ये मन्त्रादयो निश्चयान्तास्तेषु आप्रच्छनीयः, तत्र मन्त्रा-मन्त्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि-लञ्जनीयव्यवहारगोपितानि तेषु च रहस्यानि - एकान्तयोग्यानि तेषु निश्वयेषु वा इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु । अथवा स्वतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकाराः समुच्चयार्थाः, आप्रच्छनीयः - सकृत् प्रतिप्रच्छनी यो द्वित्रिकृत्वः किमिति १ - यतोऽसौ 'मेटि'ति खलकमध्यवर्त्तिनी स्थूणा, यस्यां नियमिता गोपतिर्धान्यं गाहयति, तद्वद्यमालम्ब्य सकलमन्त्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी; तथा प्रमाण- प्रत्यक्षादि, तद्वद्यः तद्दृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात् स प्रमाणं तथा-'आधारे ' - आधारस्येव सर्वकार्येषु लोकानामुपकारित्वात् तथा - 'आलंबनं' रज्ज्वादि, तद्वदापद्गर्त्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः- लोचनं तद्वल्लोकस्य मन्त्रयमात्यादिविविध कार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शकत्वाच्चक्षुरिति । एतदेव प्रपञ्चयति-' मेढिभूए ' इत्यादि, भूतशब्द उपमार्थः, सर्वकार्येषु - सन्धिविग्रहादिषु सर्वभूमिकासु- मन्त्रि अमात्यादि |||| १ - उत्क्षिप्ताध्य● अभय कुमार स्वरूपम् । ॥ १३ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy