________________
BAHRAICIA
सरीरे-अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो चा, पञ्चापीन्द्रियाणि यस्मिस्तत्तथाविधं शरीरं यस्य स तथा 'लक्खणवं. जणगुणोववेए'-लक्षणानि-स्वस्तिकचक्रादीनि, व्यञ्जनानि-मपतिलकादीनि, तेषां यो गुणः-प्रशस्तता तेनोपपेतोयुक्तो यः स तथा, उप-अप-इत-इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात् ; 'माणुम्माणपमाण| पडिपुण्णसुजायसव्वंगसुंदरंगे'-तत्र मान-जलद्रोणप्रमाणता, कथं १,-जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति, तद्यदि द्रोणमानं भवति, तदा स पुरुषो मानप्राप्त उच्यते; तथा उन्मानं-अर्द्धभारप्रमाणता, कथं ?-तुलारोपितः पुरुषो यद्यर्द्धमारं तुलति, तदा स उन्मानप्राप्त इत्युच्यते; प्रमाण-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मनोन्मानप्रमाणैः प्रतिपूर्णानिअन्यूनानि, सुजातानि-सुनिष्पनानि, सर्वाणि अङ्गानि-शिरःप्रभृतीनि, यस्मिन् तत्तथाविधं सुन्दरमंगं-शरीरं यस्य स तथा; 'ससिसोमाकारे कंते पियदसणे'-शशिव सौम्याकार, कान्तं-कमनीयमत एव प्रियं द्रष्टणां दर्शन-रूपं यस्य स तथा; अत एव 'सुरुवे'त्ति-सुरूप इति, तथा-सामदण्ड मेदउपप्रदानलक्षणा या राजनीतयः, तासां सुष्टु प्रयुक्त-प्रयोगो व्यापारणं यस्य स तथा नयानां-नैगमादीनां उक्तलक्षणनीतीनां च या विधा-विधयः प्रकारास्तान जानाति यः स तथा, पश्चात्पदद्वयस्य कर्मधारयः तत्र परस्परोपकारप्रदर्शनगुणकीर्तनादिना शत्रोरात्मवशीकरण साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिको भेदः, गृहीतधनप्रतिदानादिकमुपादानं; नयविधयस्तु सप्त नैगमादयो नया: प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च, दण्डस्य त्रयः, भेदस्य उपप्रदानस्य च पश्च कामन्दकादिप्रसिद्धा इति । तथा ईहा च-स्थाणुरयं पुरुषो वेत्येवं सदालोचनामिमुखा मतिचेष्टा, अपोहन-स्थाणुरेवायमित्यादिरूपो निश्चयः,
FOCACANCI||GFRIA