SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विहरति-तिष्ठति । 'तए णं से' इत्यादि, तत इत्यानन्तर्ये, तस्मात् ध्यानादनन्तरं, णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थ आर्यजम्बूनामेति, स च उत्तिष्ठतीति संवन्धः किम्भूतः समित्याह'जायसद्धे' इत्यादि, जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, क-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने स तथा, जातः संशयोऽस्येति जातसंशयः; संशयस्त्वनिर्धारितार्थ ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जात:यथा-भगवता श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनमवनप्रकाशप्रदीपकल्पेन पञ्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽमिहित एवं षष्ठस्याप्युक्तोऽन्यथा वेति; तथा 'जातकुतूहलो'-जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः विश्वस्यापि विश्वम्यतिकरस्य पञ्चमाले प्रतिपादिवत्वात् षष्ठानस्य कोऽन्योऽर्थो भगवताऽभिहितो भविष्यतीति, संजातश्रद्ध इत्यादी समुत्पन श्रद्धा इत्यादौ च संशब्दः प्रकर्षादिवचनः, तथा-उत्पन श्रद्धा प्रागभूता उत्पमा श्रद्धा यस्ये. त्युत्पन्नश्रद्धः । अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थमेदो, न कश्चिदेव, किमर्थ तत्प्रयोगः १, हेतुत्वप्रदर्शनार्थ, तथाहि-उत्पन्नश्रद्धत्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, अपरस्त्वाह-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, कथं जातश्रद्धो', यस्माजातसंशयः, षष्ठानार्थः पञ्चमानार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि ?, यस्मात् जातकुतूहलः, कीदृशो नाम षष्ठाङ्गस्यार्थो भविष्यति ?, कथं च तमहमवमोत्स्ये इति ?, तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति । 'उहाए उढेइ 'त्ति-उत्थानमुत्था-ऊर्दू वर्तनं तया उत्थया उत्तिष्ठति उत्थाय च, 'जेणे 'त्यादि प्रकटं, 'अजसुहम्मे थेरे' इत्यत्र षष्ठ्यर्थे सप्तमीति, 'तिखुत्तो' त्ति-विकृत्वस्त्रीन वारान् , 'आदक्षिण saytcाजYCI|||%ACANCY
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy