SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 'थेरे 'ति श्रुतादिभिर्वृद्धत्वात् स्थविरः, 'जाति संपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपत्तव्यमन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यादिति नास्योत्कर्षः कश्चिदुक्तो भवेद्, उत्कर्षाभिधानार्थं चास्य विशेषण कलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं - पैतृकः पक्षः तथा बलं संहननविशेषसमुत्थः प्राणः, रूपम् - अनुत्तरसुररूपादगुणं शरीरसौन्दर्य, विनयादीनि प्रतीतानि; नवरं लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः, एभिः संपन्नो यः स तथा 'ओयंसि' त्ति-ओजो - मानसोऽवष्टम्भस्तद्वानोजस्वी, तथा - तेजस्वी तेजः - शरीरप्रभा तद्वांस्तेजस्वी, वचो - वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्त्री; अथवा – वर्चः - तेजः - प्रभाव इत्यर्थस्तद्वान् वर्चस्वी, यशस्वी - ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतत्वात् जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोघादिविफलीकरणतोऽवसेयः; तथा जीवितस्य- प्राणधारणस्याशा - वाञ्छा मरणाच्च यद्भयं ताभ्यां विप्रमुक्तः; जीविताशामरणभयविप्रमुक्तस्तदुभयोपेक्षक इत्यर्थः तथा-तपसा प्रधानः- उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं गुणप्रधानोऽपि, नवरं गुणाः- संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ पूर्वबद्धाभिनवयोः कर्मणोर्निर्जरनानुपादान हेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ; गुणप्राधान्ये प्रपञ्चार्थमेवाह - 'एवं करणे' त्यादि, यथा-गुणशद्धेन प्रधानशोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शबै रेकविंशतिविशेषणान्यध्येयानि, तद्यथा-करण प्रधानश्च - रणप्रधानो यावच्चरित्रप्रधान तत्र करणं-पिण्डविशुद्ध्यादिः, यदाह - "पिंडविसोही समिई भावण" इत्यादि, चरणं महाव्रतादि, आइ च-'वयसमणधम्मसं जमवेयावच्चं च' इत्यादि, निग्रहः - अनाचारप्रवृत्तेर्निषेधनं, निश्वयः तच्चानां निर्णयः, विहितानु
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy