________________
SASAHESCORECACCASI
अचेह आगम्म पुण्णभई चेइ। से णं पुण्णभद्दे चेहए, एक्कणं महया वणसंडेण, सव्वओ समंता संपरि। खित्ते'-सर्वतः--सर्वदिक्षु, समन्तात--विदिक्षु च; 'से णं वणसंडे किण्हे किण्होभासे -कृष्णावभास:-कृष्णप्रम:-कृष्ण एवं वाऽवमासत इति कृष्णावभासः, 'नीले नीलोभासे'-प्रदेशान्तरे, 'हरिए हरिओभासे'-प्रदेशान्तर एव, तत्र नीलो मयूरगलवत् , हरितस्तु शुक्रपिच्छवत् , हरितालाम इति वृद्धाः 'सीए सीओभासे'-शीतः स्पर्शापेक्षया वल्ल्याद्याक्रान्तत्वादिति वृद्धः, 'निद्धे निद्धोभासे-स्निग्धो न तु रूक्षः, 'तिब्वे तिव्वोभासे-तीत्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे. किण्हच्छाए'-इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवं 'नीले नीलच्छाए, हरिए हरियच्छाए,सीए सीयच्छाए,निद्धे निद्धच्छाए, तिब्वे तिव्वच्छाए,घणकडियकडिच्छाए'-अन्योऽन्य शाखानुप्रवेशाबहलनिरन्तरच्छायः,'रम्मे महामेहनिकुरंबभूए'-महामेघवृन्दककल्पे इत्यर्थः, 'तेणं पायवा मूलमतो कंदमंतो'-कन्दो-मूलानामुपरि, 'खंधमंतों-स्कन्धः--स्थुडं,'तयामंतो' 'सालमंतों-शाला--शाखा, 'पवालमंतों-प्रवाल:-पल्लवाकरः, 'पत्तमंतो पुष्फमंतो फलमंतो बीयमंतो; 'अणुपुव्वसुजायरुइलबट्टभावपरिणया'-आनुपूर्येण-मूलादिपरिपाट्या सुष्ठु जाता रुचिराः वृत्तभावं च परिणता ये ते तथा, 'एक्कखंधा अणेगसाला अणेगसाहप्पसाहविडिमा'-अनेकशाखाप्रशाखो विटपस्तन्मध्यभागो वृक्षविस्तारो येषां ते । तथा-'अणेगणरवामसुप्पसारियअगेज्झघणविपुलवदृखंधा'-अनेकाभिर्नरवामाभिः सुप्रसारिताभिग्राह्यो घनो-निविडो
१ "एxवावभास अ। २ स्तारो वा येषां अ।
RECORIECCANFECIA%AHA