SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तत्थ णं चंपाए नयरीए, कोणिको नाम राया होत्था; वण्णओ | सूत्रम् - ३ ॥ तस्या णमित्यलङ्कारे, चम्पाया नगर्य्या, 'उत्तरपुरत्थि मे 'त्ति - उत्तरपौरस्त्ये उत्तरपूर्वायामित्यर्थः; 'दिसी भाए'त्तिदिग्भागे पूर्णभद्रं नाम चैत्यं - व्यन्तरायतनम् | 'वण्णओ'त्ति चैत्यवर्णको वाच्यः, स चायं-- 'चिराइए पुत्र्वपुरिसपन्नत्ते'चिरः- चिरकाल आदि:-निवेशो यस्य तच्चिरादिकं, अत एव पूर्वपुरुषैः - अतीत नरैः प्रज्ञप्तं - उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञतं । 'पुराणे 'ति - चिरादिकत्वात् पुरातनं, 'सद्दिए' - शब्दः - प्रसिद्धिः स संजातो यस्य तच्छब्दितं, 'वित्तए' - वित्तं द्रव्यं तदस्ति यस्य तद्वित्तिकं वृत्तिं वा आश्रितलोकानां ददाति यत्तद्वृत्तिदं, 'नाए' - न्यायनिर्नायकत्वात् न्यायः ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति । 'सच्छत्ते - सज्झए - सघंटे - सपडागाइ पडागमं डिए' सह पताकया वर्तत इति सपताकं एकां पताकामतिक्रम्य या पताका सातिपताका तथा मण्डितं यत्तत्तथा तच्च तच्चेति कर्मधारयः, 'सलोमहत्थे ' - लोममयप्रमार्जनकयुक्तं, 'कयवेयय (हि)ए'-कृतं वितर्द्दिकं रचितवेदिकं, 'लाउल्लोइयमहिए' -लाइयं यद्भूमेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालानां सेटिकादिभिः संसृष्टीकरणं ततस्ताभ्यां महितमित्र महितं पूजितं यत्तत्तथा 'गोसीससरसरत्तचंदणदद्दरदिन्नपंचगुलितले' - गोशीर्षेण - सरसरक्तचन्दनेन च दर्दरेण बहलेन चपेटाकारेण वा दत्ताः पंचकुलास्तला - हस्तकाः यत्र तत्तथा; 'उवचियचंदणकल से'- उपचिता- निवेशिताः चन्दनकलशा- मैङ्गल्यघटा यत्र तत्तथा, 'चंदणघडसुकयतोरणपडिदुवारदेस भागे'- चन्दनघटाश्च सुष्ठु कृतास्तोरणानि च द्वारदेशभागं प्रति यस्मिंस्तच्चन्दन घटसुकृततोरणप्रतिद्वारदेश १०त्तिये ० अ 8 $ एतदतरगतः पाठः 'अ' प्रतौ नास्ति । २ इगुलयः त अ ३ माङ्ग' अ 6
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy