SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ROCK REGREECHECENECTORIES फलिहा'-उद्विद्ध-उण्डं, विपुलं-विस्तीर्ण, गम्भीरम्-अलब्धमध्यं, खातम्-उपरि विस्तीर्ण अधः संकटं, परिखा च-अध उपरि च समखातरूपा यस्याः सा; तथा-'चक्क-गय-मुसुंढि-ओरोह-सयग्घि-जमलकवाडघणदुप्पवेसा'-चक्राणि-अरघट्टेयन्त्रिकाचक्राणि, गदाः-प्रहरणविशेषाः, मुसुण्ढ्योऽप्येवं, अवरोधः-प्रतोलीद्वारेष्ववान्तरप्राकारः संभाव्यते,शतघ्न्यो-महायथ्यो महाशिलामय्यः याः पातिताः शतानि पुरुषाणांघ्नन्ति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि, धनानि च-निश्छिद्राणि तैर्दुष्प्रवेशा या सा। तथा-'धणुकुटिलवंकपागारपरिखित्ता'-धनुः कुटिलं-कुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा;तथा-'कविसीसयवट्टरइयसंठियविरायमाणा'-कपिशीर्षकैर्वृत्तरचितैः-वर्तुल कृतैः संस्थितैः-विशिष्टसंस्थानवद्भिविराजमाना-शोभमाना या सा,तथा-'अद्यालय-चरिय-दार-गोपुर-तोरण-उन्नयसुविभत्तरायमग्गा'-अट्टालकाः-प्राकारोपरिवाश्रयविशेषाः,चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः,द्वाराणि-भवनदेवकुलादीनां,गोपुराणि-प्राकारद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा; तथा-सुविभक्ता-विविक्ता राजमार्गा यस्यां सा, तथा ततः पदद्वयस्य कर्मधारयः। 'छेयायरियरइयदढफलिहइंदकीला'-छेकेन-निपुणेनाचार्येण-शिल्पिना रचितो दृढो-बलवान् परिघा-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा । तथा-'विवणिवणिछेत्तसिप्पियाइण्णनिव्वुयसुहा'-विपणीनां-वणिपथानां हट्टमार्गाणां वणिजां च-वाणिजकानां क्षेत्रं-स्थानं या सा, तथा शिल्पिभिः-कुम्भकारादिमिराकीर्णा सुनिवृतैः सुखैश्च--सुखिभिर्या राजदन्तादिदर्शनात् सा । तथा-'सिंघाडग-तिग-चउक्क-चच्चरपणियावण-विविहवत्थुपरि१ "दृगंत्रि० अ । २ समस्थित० अ । ३ ०भिःxकी अ ।
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy