SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ % १-उत्क्षिप्ताध्य० नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाङ्गे वर्णनम् । ॥२॥ | पाखण्डिकानां गृहस्थानां च 'वीसत्थसुहावासा'-विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरुपः शुभो वा आवासो यस्यां सा । तथा-'अणेगकोडीकोटुंबियाइएणनिव्वुयसुहा'-अनेकाः कोटयो द्रव्यसंख्यायां खरूपपरिमाणे वा येषां ते अनेककोटयः, तैः कौटुम्बिकैः-कुटुम्बिंभिचाकीर्णा-संकुला या सा, तथा-सा चासौ निर्वृता च-संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुमा च वेति कर्मधारयः। 'नड-नदृग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-कहक-पवक-लासकआइक्खय-लंख-मंख-तृणइल्ल-तुंबवीणिय-अणेगतालाचराणुचरिया'-नटा-नाटकानां नाटयितारो, नर्चका-ये नृत्यन्ति, अंकोल्ला-इत्येके; जल्ला-वरनाखेलकाः,राज्ञः स्तोत्रपाठका इत्येन्ये; मल्ला:-प्रतीताः,मौष्टिका-मल्ला एव ये मुष्टिमिः प्रहरन्ति, विडम्बका-विदूषकाः, कथकाः-प्रतीता, प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः आख्यायिका-ये शुभाशुभमाख्यान्ति,लङ्खा-महावंशाग्रेखेलका, मङ्खा:-चित्रफलकहस्ता भिक्षाकाः, तूणइल्ला-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका-वीणावादका, अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणस्तैरनुचरिताआसेविता या सा। तथा-'आरामुजाण-अगड-तलाय-दीहिय-वप्पिण्ण-गुणोववेया'-आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामाः,उद्यानानि-पुष्पादिमवृक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड'त्ति-अवटा:-कूपास्तडागानि-प्रतीतानि, दीर्घिकाः-सारण्यः; 'वप्पिण'त्ति-केदाराः, एतेषां ये गुणा-रम्यतादयस्तैरुपपेता-युक्ता या सा; तथाउप-अप-इत-इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति । 'उव्विविपुलगंभीरखाय 1 णनिब्बुइसु० अ । २ ०भिराकीर्णा० अ । ३ •प्रलेखकाः• अ । लानाNFRICAFE
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy