________________
लक्षःसंकृष्टा-विलिखिता विकृष्टं-दूरं यावदविकृष्टा वा-आसन्ना लष्टा, मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् , 'पण्णत्तेतियोग्या कृता वीजवपनस्य सेतुसीमा-मार्गसीमा यस्याः सा तथा; अथवा-संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि द सीमासु यस्याः सा, तथा-अनेन तजनपदस्य लोकबाहुल्य क्षेत्रबाहुल्यं चोक्तं, कुक्कुडसंडेयगामपउरा'-कुक्कुटा:-ताम्रचूडा पाण्ढेयाः-पण्डपुत्रकाः षण्ढा एव तेषां ग्रामाः-समूहास्ते प्रचुराः-प्रभृता यस्यां सा, तथा-अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडाथं कुक्कुटान् पोषयति, पण्डांश्च करोतीति; 'उच्छुजवसालिकलिया'-अनेन च जनप्रमोदकारणमुक्तं, । न ह्येवंप्रकारवस्त्वभावेन प्रमोदो जनस्य स्यादिति । 'गोमहिसगवेलगप्पभूया'-गवादयःप्रभूताः-प्रचुरा यस्यामिति वाक्यं, गवेलका-उरभ्राः। 'आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला-आकारवन्ति-सुन्दराकाराणि यानि, चैत्यानि-देवतायतनानि, युवतीनां च-तरुणीनां पण्यतरुणीनामिति हृदयं यानि विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानि-बहनि यस्यां सा, तथा-'उक्कोडियगायगंठिभेयभडतकरखंडरक्खरहिया'-उक्कोडा-उत्कोटा-लश्चेत्यर्थः, तया ये व्यवहरन्ति ते उत्कोटिका:,गात्रान्-मनुष्यशरीरावयवविशेषान् कट्यादेः सकाशाद्रन्थिकार्षापणादिपोडलिकां,मिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदाः,भटाः-चारभटा बलात्कारप्रवृत्तयः,तस्कराः-तदेव-चौर्य कुर्वन्तीत्येवंशीलास्तस्कराः,खण्डरक्षा-दण्डपाशिकाःशुल्कपाला वा एभी रहिता या सा। तथा-अनेन तत्रोपद्रवकारिणामभावमाह-खेमा'-अशिवाभावात् निरुवद्दुवा'निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः। 'सुभिक्षा'-सुष्ठु-मनोज्ञा प्रचुरा भिक्षा, भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव
१ . कारवस्त्वभावेxप्र. अ । २ आयारइत्तचे० अ । ३ खेमा क्षेमा अ० अ । ४ वि आ । ४ भिक्षाकाणां य० अ ।
TAITICARICA