________________
नवाङ्गी
वृ० वृ०
श्रीज्ञाता
धर्मकथा
॥ १ ॥
66
ॐ नमः सर्वज्ञाय । ते णं काले णं, ते णं समए णं, चंपानामं नयरी होत्था; वण्णओ || सूत्रम् - १ ॥
तत्र योऽयं शब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः प्राकृतशैलीप्रभवो यथा- 'करेभि भंते " इत्यादिपुः ततोऽयं वाक्यार्थो जातः- तस्मिन् काले, तस्मिन् समये, यस्मिन्नसौ नगरी बैभूवेति, अधिकरणे चेयं सप्तमी । अथ कालसमययोः कः प्रतिविशेषः १, उच्यते - काल इति सामान्यकालः, अवसप्पिण्याश्चतुर्थविभागलक्षणः, समयस्तु तद्विशेषोः यत्र सा नगरी, स राजा, सुधर्मस्वामी च बभूव; अथवा तृतीयैवेयं, ततस्तेन कालेन - अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन, तद्विशेषभूतेन हेतुना 'चंपा नाम नयरी होत्थ'त्ति अभवत् - आसीदित्यर्थः । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरकाले १, तत्कथमुक्तमासीदिति ; उच्यते-अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता तदानीमासीद्, इदानीं नास्तीति । 'वण्णओ'त्ति - चम्पानगर्या वर्णक ग्रन्थोऽत्रावसरे वाच्यः स चायं - 'ऋद्धत्थिमियसमिद्धा' - ऋद्धा-भवनादिभिर्वृद्धिसुपगता, स्तिमिता - भयवर्जितत्वेन स्थिरा, समृद्धा- धनधान्यादियुक्ताः ततः पदत्रयस्य कर्मधारयः । 'पमुइयजणजाणवया'प्रमुदिताः प्रमोद कारणवस्तूनां सद्भावाञ्जनाः- नगरीवास्तव्य लोकाः, जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमु दितजनजानपदा; 'आइण्ण जण मणुस्सा' - मनुष्यजनेनाकीर्णा - संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तं ; 'हलसय सहस्स संकिटुविट्ठलट्ठपन्नत्त सेउसीमा' - हलानां - लाङ्गलानां शतैः सहस्रैश्च शतसहस्त्रैर्वा
१ वण्उ अ । २ विभूतेति० अ ३०ष ? उ० अ । ४ ० तेनxxस० अ ५ वर्णx अ६ ऋद्धित्थिमियास ० अ । ७०मुपागता० अ । ८ • विकिट्ट० अ
१ - उत्क्षिप्ताध्य०
चम्पा
वर्णनम् ।
॥ १ ॥