SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ एकमेव कुण्डलं धारयन्ति ये ते तथा, दक्षिणे त्वाभरणान्तरधारिण इति सामर्थ्यगम्यम् आर्द्रचन्दनानुलिप्तगात्रा इति व्यक्तम् ।। ____ ईसिसिलिध-पुप्फप्पगासाई असंकिलिट्ठाई सुहुमाई वत्थाई पवरपरिहिया वयं च पढम समतिक्वता बितिअं च वयं असंपत्ता भद्दे । जोवणे वट्टमाणा तलभंगय-तुडिअ-पवरभूसण-निम्मल-मणिरयण-मंडिअभुआ दसमुद्दा-मंडिअग्गहत्था चुलामणि-चिंधगया सुरुवा महि7 ड्ढिआ महज्जतिआ महबला महायसा महासोक्खा महाणुभागा हार-विराइत-वच्छा कड्ग-तुडिअ-थंभिअभुआ अंगय-कुंडल-मट्टगंड तल-कण्ण-पीढधारी विचित्तवत्थाभरणा विचित्त-माला-मउलि-मउडा कल्लाणक-पवर-वत्थ--परिहिया कल्लाणक-पवर-मल्लाणुलेवणा भासुरबोंदी पलंब-वणमालधरा २ । 'ईसिसिलिधपुप्फप्पगासाइ' इति मनाक् सिलीन्ध्रकुसुमप्रभाणि, ईषत्सितानीत्यर्थः, सिलीन्ध्र-भूमिस्फोटकच्छत्रकम् 'असुरेसु होति रत्त'त्ति मतान्तरम्, 'असंकिलिट्ठाईत्ति निर्दूषणानि 'सुहमाईत्ति श्लक्ष्णानि 'वत्थाइ'त्ति वसनानि 'पवरपरिहिया' प्रवराश्च ते परिहिताश्चनिवसिता इति समासः, 'वयं च' इत्यादि सूत्र, तत्र त्रीणि वयांसि भवन्ति, यदाह-'आषोडशाद्भवेद्बालो यावत् क्षीरान्नवर्तकः । KA मध्यमः सप्तति यावत्, परतो वृद्ध उच्यते ॥२॥" आद्यस्य वयसोऽतिक्रमे द्वितीयस्य सर्वथैवाप्राप्तौ भद्रं यौवनं भवत्येवेति भद्रे यौवने | इत्युक्तं, 'तलभंगयतुडिय-पवरभूसण-निम्मलमणिरयणमंडिअभुआ' तलभङ्गकानि-बाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता एव वरभूषणानि निर्मलमणिरत्नश्च मण्डिता भुजा येषां ते तथा, 'चुलामणिचिधगया' चूडामणिलक्षणं चिह्न प्राप्ताः, श्रूयन्ते चासुरादीनां चूडामण्यादीनि चिह्नानि, यदाह-'चूडामणिफणिवज्जे गरुडे घड अस्स बद्धमाणे य । मयरे सोहे हत्थी असुराईणं मुणसु चिधे ॥१॥" महिड्ढित्ति PM महर्द्धयो विशिष्टविमानपरिवारादियोगात् 'महज्जुइय'त्ति महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'महाबल'त्ति विशिष्टशारीरप्राणाः 'महायस'त्ति महायशसो-विशिष्टकीर्तयः 'महासोक्ख'त्ति महासौख्याः 'महाणुभाग'त्ति अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं 'हारविराजितवक्षसः | कटकत्रुटिक-स्तम्भितभुजाः' इह कटकानि-कङ्कणानि त्रुटिका-बाहुरक्षकाः । अंगयकुंडलमट्टगंडकण्णपीढधारी' अङ्गदानि-बाह्वाभरणविशेषान् I १ चडामणि फणी वज्र गरुडः घट: अश्वो वर्द्धमानश्च । मकरः सिहो हस्ती असुरादीनां मुण चिह्लानि ॥१॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy