________________
। ७७।।
तिधनिकनिष्प्रयम्पस्तेन त्वरितचपलम- अतित्वरितं यथा भवतीत्येवं तरन्ति, 'संवरवेरागतंगकवयसूसंपउत्तेणं' संवरः-प्राणातिपातादिविरति| रूपो वैराग्यं-कषायनिग्रहः एतल्लक्षणो यस्तूङ्गः-उच्चः कृपक:-स्तम्भविशेषस्तेन सष्ठ सम्प्रयुक्तो यः स तथा तेन, 'णासियविमलमूसिएणति | | ज्ञानमेव सितः-सितपट: स विमल उच्छितो यत्र स तथा तेन, मकारचेह प्राकृतशैलीप्रभवः 'सम्मत्तविसुद्धलद्धणिज्जामएण' सम्यक्त्वरूपी विशुद्धो-निर्दोषो लब्धः-अवाप्तो निर्यामक:-कर्णधारो यत्र स तथा तेन, धीरा-अक्षोभ्याः संयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थजमाणतव-बायपणोल्लियपहाविएण' प्रशस्तध्यान-धर्मादि तद्रपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदित-प्रेरणं तेन प्रधावितावेगेन चलितो यः स तथा तेन, संयमपोतेनेति प्रकृतम्, 'उज्जमववसायग्गहिय-णिज्जरणजयणउवओग-णाणदसणविसुद्धवयभंडभरिअसारा उद्यम:-अनालस्य व्यवसायो-वस्तुनिर्णयः सद्वयापारो वा ताभ्यां मूलकल्पाभ्यां यद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूप भाण्डं क्रयाणकं तस्य भरित:-संयमपोतभरणेन पिण्डितः सारो यस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निजेरण-तपः यतनाबहुदोषत्यागेनाल्पदोषाश्रयणम् उपयोग:- सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि व्रतानि, अथवा ज्ञानदर्शने च विशुद्धव्रतानि चेति समासः, IA | व्रतानि च महाव्रतानि पाठान्तरेण 'णाणदसणचरित्त-विसद्धवरभंडभरियसार'त्ति तत्र ज्ञानदर्शनचारित्राण्येव विशुद्धवरभाण्डं तेन भरितः सारा
यस्ते तथा, 'जिणवरवयणोवदिमग्गेणं अकूडिलेण सिद्धिमहापट्टणाभिमुहा समणवरसत्थवाह'त्ति व्यक्तं 'सुसुइसुसंभाससुपण्हसास'त्ति सुश्रुतयःO सम्यकश्रुतग्रन्थाः सत्सिद्धान्ता वा सुशचयो बा सुखः सम्भाषो येषां सुखेन वा सम्भाष्यन्त इति सुसम्भाषा: शोभनाः प्रश्नाः यषा सुखन
वा प्रश्श्यन्ते ये ते सुप्रश्ना: शोभना आशा:-वाञ्छा येषां ते स्वाशाः अथवा सुखेन प्रश्न्यन्ते शास्यन्ते च-शिक्ष्यन्ते ये ते सुप्रश्नशास्याः
शोभनानि वा प्रश्नशस्यानि-पच्छाधान्यानि येषां ते तथा, अथवा सूप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इात, ४ा 'दूइज्जन्त'त्ति द्रवन्तो-वसन्त:, अनेकार्थत्वाद्धातनां, "णिज्भय'त्ति भयमोहनीयोदयनिषेधात 'गयभय'त्ति उदयविफलताकरणात् 'संजय'त्ति संयमवन्तः, कुत इत्याह-'विरय'त्ति यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरताः, विरया वा-निरौत्सुक्याः
॥७७॥