SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ।।७५॥ प्रलम्पनानि च प्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषधर्षणाश्च-निष्ठुरवचननिर्भर्त्सनानि समापतितानि-समापन्नानि बानि यानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्वन्द्वः, तत एतान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्ग रङ्गद्वीचिभिश्चलत नित्यं-ध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवा अपमानफेनमिति तोयपतस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, 'कसायपायालसंकुलं' कषाया एव पाताला:-पातालकलशास्तैः सकुलो यः स तथा तं, •भवसयसहस्स-लुसजलसंचयं भवशतसहस्राण्येव कलुषो जलानां सञ्चयो यत्र स तथा तं, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानी जननाहिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तस्वमिति, 'पइभयंति व्यक्तं, 'अपरिमिअमहेच्छकलुस-मइवाउवेगउद्धम्ममाणदगरयरयंधार वरफेणपउरआसापिवासघवलं' अपरिमिता-अपरिमाणा या महेच्छा-बृहदभिलाषा लोकास्तेषां कलुषा-मलिना या मतिः | सैव वायवेगेन बुद्धम्ममाणं उद्धृब्वमाणं वा-उत्पाद्यमानं यदुदकरजः-उदकरेणुसमूहस्तस्य रयो-वेगस्तेनान्धकारो यः स तथा, वरफेनेनेव प्रचराशापिपासाभिस्तत्र प्रचुरा-बह्वय आशा:-अप्राप्तार्थानां प्राप्तिसम्भावनाः पिपासास्तु-तेषामेवाकांक्षा अतस्ताभिर्धवल इव धवलो यः स तथा, ततः कर्मधारयः, अतस्तं, 'मोहमहावत्तभोगभममाण-गुप्पमाणुच्छलतपच्चोणियत्त-पाणियपमायचंडबहुदुट्ठसावयसमाहउद्धायमाण-पब्भारघोरकंदियमहारबरवंतभेरवरवं' मोहरूपे महावर्ते भोगरूपं भ्राम्यत्-मण्डलेन भ्रमद्गुप्यत्-व्याकुलीभवदुच्छलत्-उत्पतत् प्रत्यवनिपतच्च-अधःपतत पानीयं-जल यत्र स तथा, प्रमादा-मद्यादयस्त एव चण्डबहुदुष्टश्वापदा:-रौद्रभरिक्षद्रव्यालास्तैर्ये समाहता:-प्रहता उद्धावन्तश्च-उत्तिप्रन्तो वा विवि चेष्टमाना समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयस्तेषां प्राग्भारः पूरो वा समूहो यत्र स तथा, तथा घोरो यः क्रन्दितमहारवः स तुब रवन्-प्रतिशब्दकरणतः शब्दायमानो भैरवरवो-भीमघोषो या स तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तम् २ । अण्णाण भमंत-मच्छपरिहत्थ-अणिहुतिदिय-महामगर-तुरिअ-चरिअ-खोखुब्भमाण-नच्चंत-चवल-चंचल-चलंत-घुम्मत-जलसमूहं अरति-भय-विसाय-सोग-मिच्छत्त-सेलसंकडं अणाइसंताण-कम्मबंधण-किलेस-चिक्खिल्ल-सुदुत्तारं अमर-नर-तिरिय-निरिय-गइ-गमण अण्णाण
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy