________________
॥७
॥
'कंदणय'त्ति महता शब्देन विरवणं 'सोअणय'त्ति दीनता, 'तिप्पणय'त्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता-पूनः पून: क्लिष्ट भाषणमिति १९ 'उसण्णदोसे'त्ति उसण्णेन-बाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनतादत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तथा 'बहुदोसे'त्ति बहुष्वपि सर्वेष्वपि हिंसादिषु ४ दोषः-प्रवृत्तिलक्षणो बहुदोषः अण्णाणदोसे'त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिसादिप्वधर्मस्वरूपेषु धर्मबुद्धया या प्रवृत्तिस्तल्लक्षणो दोषः अज्ञानदोषः, 'आमरणंतदोसे'त्ति मरणमेवान्तो मरणान्तः आ मरणान्तात आमरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु ४ प्रवृत्तिः सैव दोष: आमरणान्तदोषः, इह चार्तरौद्रे परिहार्यतया साधुविशेषणे ) धर्मशुक्ले स्वासेव्यतयेति २१ । 'चउप्पडोयारे'त्ति चतुर्पु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुष्प्रत्यवतारमिति । 'आणाविजए'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थः, एवं शेषपदान्यपि, नवरम् अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाक:-कर्म फलं, संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः २२ । 'आणारुईत्ति नियुक्त्यादिश्रद्धानं 'णिसग्गरुईत्ति स्वभावत एव तत्त्वश्रद्धानम् 'उवएसरुईत्ति साधूपदेशात्तत्त्वश्रद्धानं 'सुत्तरुईत्ति आगमात्तत्त्वश्रद्धानम् 'आलंबण'त्ति आलम्बनानि धर्मध्यानसौधशिखरारोहणार्थ यान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि २४ । अनित्यत्वाशरणत्वकत्वसंसारानुप्रेक्षाः प्रतीताः २५ ।
सुक्कज्झाणे चउम्विहे चउप्पडोआरे पण्णत्ते, तंजहा-पुत्तवियक सविआरी १ एगत्तवियक्के अविआरी २ सुहुमकिरिए अप्पडिवाई ३ समुच्छिन्नकिरिए अणियट्टी, ४ २६ । सुक्कास णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-विवेगे बिउसग्गे अव्वहे असम्मोहे २७ । सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तंजहा-खती मुत्ती अज्जवे मद्दवे २८ । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओस पण्णत्ताओ, तंजहा-अवायाणुप्पेहा असुभाणुप्पेहा अणतवित्तिआणुप्पेहा विप्परिणामाणुप्पेहा, से तं झाणे २९ । ___'पुहुत्तवियक्के सविआरी'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरण
७१।।
D