________________
अनगा०
औपपातिकम्
स०१४
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
'णिव्वियतिएत्ति निर्गतघृतादिविकृतिकः, 'पणीयरसपरिच्चाई प्रणीतरसं गलद्वृतदुग्धादिबिन्दुः, 'आयंबिलए'त्ति आयाम्लम्-ओदनकुन्माषादि, 'आयामसित्थभोइ'त्ति अवश्रावणगतसिक्थभोक्ता 'अरसाहारे'त्ति अरसो-हिग्वादिभिरसंस्कृत आहारो यस्य स तथा, 'विरसाहारेत्ति विगतरस:-पुराणधान्यौदनादिः, 'अंताहारे'त्ति अन्ते भवमन्त्यं (मान्त)जघन्यधान्यं वल्लादि, 'पंताहारे'ति प्रकर्षेणान्त्यं वल्लायेव भुक्तावशेष पर्युषितं वा, 'लहाहारे'त्ति रूक्ष-रूक्षम्बमावं, क्वचित 'तुच्छा हारे'त्ति दृश्यते तत्र तुच्छोऽल्पोऽसारश्च १३ ॥ 'ठाणहिए"त्ति स्थानं-कायोत्सर्गस्तेन स्थितिर्यस्य स स्थानस्थितिकः, 'पाठान्तरेण' 'ठाणाइए'त्ति स्थानं-कायोत्सर्गस्तमतिगच्छति-करोतीति स्थानातिगः, 'उक्कुडयासणिए'त्ति प्रतीतं, 'पडिमट्ठाईत्ति प्रतिमा-मासिक्यादयः, 'वीरासणिए'ति वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति स वीरासनिक, 'नेसज्जिए'त्ति निषद्या पुताभ्यां भूम्यामुपवेशनं तया चरति नैषधिकः, 'दंडाइए लगंडसाईत्ति क्वचिदृश्यते तत्र दण्डस्येवायतम्-आयामो यस्यास्ति स दण्डायतिकः लगण्डं-बक्रकाष्ठं तद्वच्छेते यः स लगण्डशायी तस्य पार्णिकाशिरांस्येव पृष्ठमेव वा भूमौलगतीति, 'आयाधए'ति आतापयति-शीतादिभिदेहं सन्तापयतीत्यातापकः, आतापना च त्रिविधा भवति-निष्पन्नस्योत्कृष्टानिष्पन्नस्य मध्यमा ऊर्ध्वस्थितस्य जघन्या, निष्पन्नातापनाऽपि त्रिविधा-अधोमुखशायिता १ पार्श्वशायिता २ उत्तानशायिता चेति ३, अनिष्पन्नातापनाऽपि विधा-गोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानातापनाऽपि विधैव-हस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादिवयं प्रत्येक योजनीयमिति, 'अवाउडए'त्ति अप्रावृतकः प्रावरणवर्जक इत्यर्थः, अकण्डूयकानिष्ठीवको व्यक्ती, 'धुयकेसमंसुलोमात्ति क्वचिदृश्यते, तत्र धुतानि-निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रुरोमाणि-शिरोजकूर्चकक्षादिलोमानि येन स तथा, किमुक्तं भवति :-सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति १४ ।
से कितं इंदियपडिसलीणया १, २ पंचविहा पण्णता, तंजहा-सोइंदियविसयपयारनिरोहो पा सोइंदियविसयपत्तेसु अस्थेसु रागदोसनिग्गहो वा, चविखदियविसयपयारनिरोहो वा चक्खिदियविसयपत्तेसु अत्धेसु रागदोसनिग्गहोवा, घाणिं
XX