SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥६ ॥ EXEKXXXXXXXXXXXXX ल्पिकानाश्रित्योक्तम् , अन्येषां मासकल्पविहारित्वादिति, 'वासीचंदणसमाणकप्पात्ति वासीचन्दनयोः प्रतितयोरथवा वासीचन्दने इव वासीचन्दनेअपकारकोपकारको तयोः समानो-निषरागत्वात्समः कल्पो-विकल्पः समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, 'समलेठुकंचण'त्ति समेतुल्ये उपेक्षणीयत्वाग्लेष्टुकाश्चने येषां ते तथा, 'समसुखे' त्यादि 'विहरंती' त्येतदन्तं व्यक्तं । वाचनान्तरे पुनः 'तंजहा' इत्यतः परं गमान्तं यावदिदं पठयते-अंडए इ वा अण्डजो-हंसादिः अण्डकं वा-मयूराण्डकादिः क्रीडादिमयूरादिहेतुरिति वा प्रतिबन्धः स्यात् , सप्तम्येकवचनान्तं चेदं व्याख्येयम्, इकारस्तु प्राकृतप्रभवः, 'पोयए इ.वा' पोतजो-हस्त्यादिः, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात् , 'अंडजे इ वा 'चोंडजे हवे' त्यत्र पाठान्तरे अण्डजं-वस्त्रं कोशिकारकीटाण्डकप्रभवं बोण्डजं-कर्पासीफलप्रभवं वस्त्रमेव, 'उग्गहिए इवा' अवगृहीतं-परिवेषणार्थमुत्पाटितं भक्तपानं 'पग्गहिए वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा अवग्रहिक-अवग्रहोऽस्यास्तीत्यवग्रहिक-वसतिपीठफलकादिक-औपग्रहिकं वा दण्डकादिकमुपधिजातं, प्रगृहीतं तु प्रकर्षण गृहीतत्वादौधिकमिति, 'जण्णं जपणं दिसंति णङ्कारस्य वाक्यालङ्कारार्थत्वार्या यां दिशमिच्छन्ति विहर्तुमिति शेषः, 'तं गं तं णं' ति तां तां दिशं विहरन्तीति योगः, 'सुइभ्य'त्ति शुचिभूता:भावशुद्धिमन्तः श्रुतिभूता वा-प्राप्तसिद्धान्ताः, 'लघुभूयत्ति अल्पोपधितया गौरवत्यागाच, अथवा लघुभूतो वायुस्तद्वत् ये सततविहारास्ते लघुभूताः, 'अणप्पगथा' अनल्पग्रन्थाः-बह्वागमाः अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थो-हिरण्यादिर्येषां ते तथा, अनjग्रन्था वा भावधनयुक्ता इत्यर्थः ३॥ सूत्र १७॥ तेसि गं भगवंताणं एतेणं विहारेण विहरमाणाणं इमे एआरूवे अभितरवाहिरए तवोवहाणे (जायामायाचित्ति अदुत्तरं वा) होत्या, तंजहा-अभितरए छब्धिहे वाहिरएषि छबिहे ॥ सू०१८॥ अथ साधुवर्णकः प्रकारान्तरेणोच्यते स च 'तेसि णमित्यादि से तं भावविउस्सग्गे' इत्येतदन्तः अनशनादितपोभेदप्रतिपादनपरः सुगम एव, नवरं वाचनान्तरे 'जायामायावित्तित्ति संयमयात्रामात्रार्थ वृत्तिः-भक्तग्रहणं यात्रामात्रावृत्तिः 'अदुत्तरं वत्ति अथापरं पुनरित्यर्थः । तथा ॥ ६ ॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy