SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ वीरवर्णन औपपातिकम् सू०१० ॥३५॥ BREXXXXXXXXXXXXXXXXXXXXXXXXXXX नादित्वं-प्रतिरवोपेतत्वादि ५ दक्षिण-सरलत्यम्-६ उपनीतरागत्व-मालवकैशिकादिग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्व-वृहदभिधेयता ८ अव्याहतपूर्वापरत्वं-पूर्वापरवाक्याविरोधःह शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १० असन्दिग्धत्वम्-अमंशयकारिता ११ अपहतान्योत्तरत्व-परदूषणाविषयता १२ हृदयग्राहित्वं-श्रोतमनोहरता १३ देशकालाव्यतीतत्वं-प्रस्तावोचि- तता १४ तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुमारिता १५ अप्रकीर्णप्रसृतत्वं-सुसम्बद्धस्य सतः प्रसरणम् , अथवा असम्बद्धाधिकारत्वातिविस्तरयोरभावः १६ अन्योन्यप्रगृहीतत्वं-परस्परेण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं वक्तः प्रतिपाद्यस्य वा भूमिकानुसारिता १८ अतिस्निग्धमधुरत्वंघृतगुडादिवत् सुखकारित्वम् १६ अपरमर्मवेधित्वं-परमर्मानुद्घाटनस्वरूपत्वम् २० अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं २१ उदारत्वम्-अभिघेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ उपगतलाध्यत्वम्-उक्तगुणयोगात् प्राप्तश्लाध्यता २४ अपनीतत्वम्-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतृणा जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भवस्तत्त्वम् २६ अद्भुतत्वम् अनतिविलम्बित्वं च प्रतीत २७-२८ विभ्रमविक्षेपकिलिकिश्चितादिवियुक्तन्व-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपः-तस्यैवाभिधेयार्थ प्रत्यनासक्तता किलिकिञ्चितंरोषभयाभिलाषादिभावानां युगपदसकृत्करणम् आदिशब्दान्मनोदोषान्तरपरिग्रहः, तेवियुक्तं यत्तथा तद्भावस्तत्त्वं २६ अनेकजातिसंश्रयाविचित्रत्वम् , इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि ३० आहितविशेषत्वं-वचनान्तरापेक्षया ढौकितविशेषता ३१ साकारत्व-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्त्वपरिगृहीतत्वं-साहसोपेतता ३३ अपरिखेदितत्वम्-अनायाससम्भवः ३४ अव्युच्छेदिस्व-विवक्षितार्थसम्यसिद्धिं यावद् अव्यवच्छिन्नवचनप्रमेयतेति ३५॥ अथ प्रकृतवाचना-'आगासगएण'ति आकाशवर्तिना 'चक्रेण धर्मचक्रेण 'आगासगएणं छत्तेण'ति छत्रत्रयेण 'आगासियाहिति आकाशम्-अम्बरमिताभ्यां प्राप्ताभ्यां आकर्षिताभ्यां वा आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहिं'ति चामराम्या-प्रकीर्णकाम्या, प्राकृतत्वाच्च लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् । 'आगासफलियामएणं'ति आकाशतुल्यं स्वच्छतया यत् स्फटिकं तन्मयेन, सपादपीठेन सिंहासनेनेति व्यक्तं । XXXXXXXXXXXXXXXXXXXXXXXXXXX *॥३५॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy