SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ वीरवर्णन औपपातिकम् । मु०१० ॥३४॥ सविं संपरिखुडे (१२८), पुयाणपुर्वि चरमाणे गामाणुग्गामं दूइज्जमाणे सुहंमहेणं विहरमाणे (१३१), चंपाए णयरीए बहिया उवणगरग्गामं उवागए चंपं नगरिं पुण्णभई चेहअं समोसरि कामे (१३२) ६॥ सूत्र १०॥ शास्ता नायकः, तस्यैव नेता स्वामीत्यर्थः । 'पइट्ठावए' तस्यैव प्रतिष्ठापकः, तेस्तैरुपायैर्व्यवस्थापकः। 'समणगपई' श्रमणकपतिः, साधुसङ्घाधिपतिः। 'समणगविंदपरिअट्टए' श्रमणा एव श्रमणकास्तेषां वृन्दस्य परिवर्तको-वृद्धिकारी परिकर्षको वा-अग्रगामी तेन वा पर्यायकःपरिपूर्णो यः स तथा (१२५), 'चउत्तीसवुद्धवयणातिसेसपत्ते' चतुस्त्रिंशत् बुद्धानां-जिनानां वयणत्ति-वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकर' मित्यादिनोक्तस्वरूपा येऽतिशेषा-अतिशयास्तान प्राप्तो यः स तथा । इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम् , अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, यत आह-देहं विमलसुयंधं आमयपस्सेयवजियं अरुयं । गहिरं गोक्खीराभं निव्वीसं पंडुरं मंसं ॥१॥ इत्यादि (१२६), 'पणतीससञ्चवयणाइसेसपत्ते' पश्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान प्राप्तो यः स तथा (१२७), ते चामी वचनातिशयाः तद्यथा-संस्कारवत्त्वम् १ उदात्तत्वम् २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वम् ४ अनुनादित्वं ५ दक्षिणत्वम् ६ उपनीतरांगत्वं ७ महार्थत्वम् ८ अव्याहतपौर्वापर्यत्वं । शिष्टत्वं १० असन्दिग्धत्वम् ११ अपहतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालाव्यतीतत्वं १४ तत्त्वानुरूपत्वम् १५ अप्रकीर्णप्रसृतत्वम् १६ अन्योऽन्यप्रगृहीतत्वम् १७ अभिजातत्वम् १८ अतिस्निग्धमधुरत्वम् १६ अपरमर्मवेधित्वम् २० अर्थधर्माभ्यासानपेतत्वम् २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वम् २३ उपगतश्लाध्यत्वम् २४ अनपनीतत्वम् २५ उत्पादिताच्छिन्नकौतूहलत्वम् २६ अद्भुतत्वम् २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपकिलिकिञ्चितादिविप्रयुक्तत्वम् २६ अनेकजातिसंश्रयाद्विचित्रत्वम् ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्त्वपरिगृहीतत्वम् ३३ अपरिखेदित्वम् ३४ अध्युच्छेदित्वं ३५ चेति वचनातिशयाः। तत्र 'संस्कारवत्त्वं' 'संस्कृतादिलक्षणयुक्तत्व १ उदात्तत्वम्-उच्चैवृत्तित्वम् २ उपचारोपेतत्वम्-अग्राम्यता ३ गम्भीरशब्दत्वं-मेघस्येव ४ अन *॥३४॥ * देहो विमलः सुगन्ध पामयप्रस्वेदवजितः मरुजः । रुधिरं गोक्षीराभं निविस्र पाण्डरं मांसम् ॥१॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy