________________
औपपातिकम्
वीरवर्णन
सू०१०
॥२४॥
XXX
हस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमरकादिदुरितविनाशनात (७), तथा न भयं दयते-ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवती दया-घृणा यस्य सोऽभयदयः, न केवलमयमनर्थ न करोति अपि त्वर्थ करोतीति दर्शयन्नाह-चक्षरिव चक्षः-श्रतज्ञानं तद्दयते यः स चक्षुर्दयः, यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाह-मार्ग-सम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-'शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थः, यथा हि लोके चक्षुर्मार्गशरणदानाद्दुःस्थानां जीवनं ददात्येवमिहापीति दशर्यन्नाह-जीवनं जीवो-भावप्राणधारणम् , अमरणधर्मत्वमित्यर्थः, तं दयत इति जीवदयो, जीवेषु वा दया यस्य स जीवदयः (१२), तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तगताङ्गिवर्गस्य नानाविधदुःखकल्लोलाभिघातदुःस्थितस्याश्वासहेतुत्वात् , तथा त्राणम्-अनर्थप्रतिहननं तद्धेतुत्वात्त्राणं, तथा शरणम्-अर्थसम्पादनं तद्ध तुत्वाच्छरणं, तथा 'गहात्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थमाश्रीयते इति गतिः, 'पइट'त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधारः संसारगर्ने प्रपततः प्राणिवर्गस्येति (१७), तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः पृथिव्या अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति, चातुरन्तः, स चासौ चक्रवती च चातुरन्तचक्रवर्ती, वरचासौ चातुरन्तचक्रवर्ती च वरचातुरन्तचक्रवर्ती-सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, सकलधर्मप्रणेतृणां मध्ये सातिशयत्वादिति (१८), तथा अप्रतिहते-कटादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने-केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, कथमस्यैते इत्यत आह-यतो 'व्यावृत्तच्छमा' निवृत्तज्ञानाद्यावरणो निर्मायो वा (२०) एतच्च रागादिजयात्तस्येत्याह-'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञानादित्यत आह-'जाणए'त्ति ज्ञायको-ज्ञाता रागादिभावसम्बन्धिनां स्वरूपकारणफलानामिति, अत एव 'तिपणे'त्ति तीर्ण इव तीर्णः, संसारसागरमिति गम्यते, अत एव 'तारक संसारसागरादुपदेशवर्तिनां भगवानिति, तथा 'मुक्तो' बाह्याभ्यन्तरग्रन्थात् कर्मवन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिना, तथा 'बुद्ध'त्ति बुद्धवान् बोद्धव्यम् , अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानि भवावस्थामाश्रित्योक्तानि,
KXXXXXXXXXXXXXXXXXXXX
X॥२४॥