________________
औपपातिकम्
सू०8
॥२३॥
XXXXXXXXXXXXXXX
'कोडंपिया' कतिपयकुटुम्बप्रभवोऽवलगका मन्त्रिणः प्रतीताः, महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका इति वृद्धाः, गणका-ज्योतिपिकाः, भाण्डागारिका इति श्रद्धाः, दौवारिकाः-प्रतीहाराः राजदौवारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, पीठमर्दाः-आस्थाने आसनासन्नसेवकाः, वयस्या इत्यर्थः, नगरं-नगरवासिप्रकृतयः, निगमा:-कारणिकाः वणिजो वा, श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपदृविभूषितोत्तमाङ्गाः, सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थवाहकाः, दुता-अन्येषां राजादेशनिवेदकाः, सन्धिपालाः-राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिति सार्द्ध सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात्परिवृतः-परिकरित इति ॥ सूत्र ह॥
तेणं काले णं ते णं समए णं समणे भगवं महावीरे आइगरे तिथगरे सह(यं)संबुद्धे (३) पुरिसुत्तमे पुरिससीहे पुरिसवरपंडरीए पुरिसवरगंधहस्थी (७), अभयदए चक्खुदए मग्गदए सरणदए जीवदए (१२), दीवो ताणं सरणं गई पट्ठा (१७), धम्मवर-चाउरत-चक्कवहि (१८), अप्पडिहय-वरनाणदंसणधरे विअच्छउमे (२०), जिणे जाणए लिण्णे तारए मुत्ते मोयए बुद्ध बोहए (विअछउमे अरहा केवली) सवण्णू सव्वदरिसी (३०), सिव-मयल-मरुअ-मणंत-मक्खय-मव्वाबाह-मपुणरावतिसिजिगणामधेयं ठाणं संपाविउकामे (३१), अरहा जिणे केवली (३४), सत्तहत्थस्सेहे समचउरंस-संठाणसंठिए बजरिसहनारायसंघपणे अणुलोमवाउवेगे (३८), कंकग्गहणी कवोयपरिणामे सउणि-पोस-पितरोरुपरिणए (४१), १।
महावीरवर्णके लिख्यते-'श्रमणो' महातस्पवी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समग्रेश्वर्यादियुक्तः 'महावीरो' देवादिकृतोपसर्गादिप्वचलितसत्त्वतया देवप्रतिष्ठितनामा, 'आदिकरः' आदौ प्रथमतया श्रुतधर्मस्य करणशीलत्वात् , 'तीर्थङ्करः सङ्घकरणशीलत्वात् 'सहसम्बुद्धः स्वयमेव सम्यग्बोद्धव्यस्य वोधात् (३), कुत एतदित्याह यतः 'पुरुषोत्तमः' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह-'पुरुषसिंहः' शौर्यातिशयात् , 'पुरुषवरपुण्डरीकः' पुरुष एव वरपुण्डरीकम्-धवलपद्म' पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसरहितत्वात् , एवं 'पुरुषवरगंध
P
॥२३॥