________________
औषपा
वीरवर्णन
तिकम्
॥२५॥
KRRRRRRRRRRRRRRRRXXXXKIRRRRRXXXXXXXRREE
अथ सिद्धावस्थामाश्रित्योच्यते-'सव्वण्णू सव्वदरिसी'त्ति, इह ज्ञान-विशेषावबोधः, दर्शनं च-सामान्यावबोधः, सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञानं नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं, तथा 'शिव' सर्वोपद्रवरहितत्वाद् 'अचलं' स्वाभाविकप्रायोगिकचलनरहितत्वात 'अरुज' रोगाभावात 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात् , 'अक्षयम्' अनाशं, साद्यपर्यवसितत्वात् , अक्षयं वा परिपूर्णत्वात् , 'अव्यावाधम्' अपीडाकारित्वात् , 'अपुनरावर्तक पुनर्भवाभावात् , सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तसिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकारवा, जीवस्वरूपविशेषणानि तु लोकाग्रे उपचारादवसेयानीति, 'संपाविउकामे'त्ति संप्राप्तुकामस्तत्राप्राप्त इत्यर्थः, 'जिणे जाणए' इत्यादिविशेषणानि क्वचिन्न दृश्यन्ते, दृश्यन्ते पुनरिमानि-'अरह'त्ति अर्हन-अशोकादिमहापूजाहत्वात् अविद्यमानं वा रहः-एकान्तं प्रच्छन्नं सर्वज्ञत्वाद् यस्य सोऽरहाः, जिनः प्राग्वत् , केवलानि-सम्पूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अत एव 'सवण्ण सब्बदरिसी' (३०), 'सत्तहत्थुम्सेहे' सप्तहस्तप्रमाणः। 'समचउरंससंठाणसंठिए' समं-तुल्यं अधःकायोपरिकाययोलक्षणोपेततया तच्च, तचतरमिव चतुरस्रच-प्रधानलक्षणोपेततयैव समचतुरस्र तच्च तत् संस्थानं च-आकारस्तेन संस्थितो यः स तथा । 'बज्रऋषभनाराचसंहनन' इति प्रथमसंहननः। 'अणुलोमवाउवेगे' अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवायवो यस्य स तथा (३८), 'कङ्कग्रहणी' कङ्कः-पक्षिविशेषः तस्येव ग्रहणी-गुदाशयो यस्य नीरोगवर्चस्कतया स तथा । 'कवोयपरिणामे' कपोतस्येव-पक्षिविशेषस्येव परिणाम:-आहारपाको यस्य स तथा, कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयतीति किल श्रुतिः। 'सउणिपोसपितरोरुपरिणए' शकुनेरिव-पक्षिण इव 'पोसं ति अपानदेशः पुरीषोत्सर्गनिर्लेपतया यस्य स तथा, पृष्ठश्च-प्रतीतमन्तरे च-पृष्ठोदरयोरन्तराले पावित्यर्थः, उरू च-जङ्घ इति द्वन्द्वस्तत एते परिणता-विशिष्टपरिणामवन्तः सुजाता यस्य स तथा (४१)१।
पउमुप्पल-गंधसरिस-निस्सास-सुरभिवयणे (४२), छवी निरायंक-उत्तम-पसत्थ-अइसे (स्से) य-निरुवमप(त)ले (४४), य(जल्ल-मल्ल-कलंक-सेय-रय-दोस-वज्जिय-सरीर-निरुवलेवे छाया-उज्जोइयंगमंगे (४५) घणनिचिय-सुषद्ध-लक्खणुण्णय
XXXXXXRRENERAKKARXXXREKKKKKXXXNEKD
॥२५॥