SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ औषपातिकम् धारिणी. ॥ २१॥ XXXXXXXXXXXXXXXXXXXXXXX पूर्णानि-स्वरूपतः, पुण्यानि वा-पवित्राणि पश्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा (२), 'लक्खणवंजणगुणोववेया' लक्षणानिस्वस्तिकचक्रादीनि व्यञ्जनानि-मपीतिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता या सा तथा (३), 'माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' तत्र मानं-जलद्रोणप्रमाणता, कथम् ?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम्-अर्द्धभारप्रमाणता, कथम् , तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु स्वाङगुलेनाप्टोत्तरशतोच्छ्यता, ततश्च मानोन्मानप्रमाणेः प्रतिपूर्णानि-अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यत्र तत्तथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा (४), 'ससीसोमाकारकतपीयदसणा' शशिवत्सौम्याकारं-कान्तं च-कमनीयमत एव च प्रियं-वल्लभं द्रष्टदृणां दर्शन-रूपं यस्याः सा तथा। अत एव 'सुरूवत्ति शोभनरूपा (६) 'करयलपरिमिअपसत्थतिवलियवलियमज्झा' करतलपरिमितो-मुष्टिग्राह्यः प्रशस्त:-शुभस्त्रिवलिको-वलित्रय युक्तो बलितः-सञ्जातवलिमध्यो-मध्यभागो यस्याः सा तथा (७), 'कंडलुल्लिहियगंडलेहा' कुण्डलाम्यामुल्लिखिता गण्डलेखाः-कपोलपत्रवल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखे'ति पाठान्तरं, व्यक्तं च (८) 'कोमुहरयणियरविमलपडिपुण्णसोमवयणा' कौमुदी-चन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकर:-चन्द्रस्तद्वद्विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा (8) 'सिंगारागारचारुवेसा' शृङ्गारस्य-सविशेषस्यागारमिव-स्थानमिव चारुः-शोभनो बेषो-नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधानः आकार:-संस्थानं चारुश्च वेषो यस्याः सा तथा (१०), 'संगयगयहसियभणियविहियविलाससललियसंलावणिउणजुत्तोषयारकुसला' सङ्गता-उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं-चेष्टितं विलासो-नेत्रचेष्टा, तथा सह ललितेनप्रसन्नतया ये संलापा:-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः-सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, क्वचिदिदमन्यथा दृश्यते-'सुंदरथणजघणवयणकरचरणनयणलावण्णविलासकलिया' व्यक्तमेव, नवरं जघनंपूर्वकटीभागः लावण्यम्-आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टाविशेषः, आह च--"स्थानासनगमनानां हस्तभ्रनेत्रकर्मणा चैव । ॥२१॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy