SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कम औपपाति- ह्रस्वानि यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोच्चारणं न विलम्बितं द्रुतं वा किन्तु मध्यममेव सिद्धाधि० । गृह्यते, यत आह-"हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥१॥' शैलेशी-मेरु- सू० ४३ स्तस्येवस्थिरतासाम्याद्याऽवस्था स शैलेशी अथवा शोलेशः-सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां प्रतिपद्यते, AI ततः 'पुव्वरइयगुणसेढीगं च णंति पूर्व-शैलेश्यवस्थायाः प्राग् रचिता गुणोणी-क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणोणी चैवं-सामा॥१७८॥ न्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तवेद्यमल्पं बहु बहुतरं बहतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणोणीत्युच्यते, स्थापना चैवं 'कम्मति वेदनीयादिकं भवोपग्राहि, 'तीसे सेलेसिमद्धाए'त्ति तस्यां शैलेश्यद्धायां-शैलेशीकाले क्षपयन्निति योगः, एतदेव विशेषेणाह-'असंखेजाहि गुणसेढीहि न्ति असङ्खचाताभिर्गुणोणीभिः शैलेश्यवस्थाया असङ्खचातसमयत्वेन गुणोप्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्याता गुणोणयो भवन्ति, अतोऽसङ्खचाताभिः गुणशेणीभिरित्युक्तम्, असङ्ख्यातसमयरिति हृदयम् 'अणंते कम्मसे खवयेतो' त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् काशान्-भवोपग्राहिकर्मभेदान् क्षपयन् निर्जरयन् 'वेयणिज्जाउयणामगोए'त्ति वेदनीयं सातादि आयु:मनुष्यायुष्कं नाम-मनुष्यगत्यादि गोत्रम -उच्चैर्गोत्रम् ‘इच्चेते'त्ति इत्येतान् ‘चत्तारित्ति चतुरः 'कम्मंसे'त्ति कर्मांशान्मूलप्रकृती: 'जुगवं खवेइ'त्ति ॥१७८।। योगपद्येन निर्जरयतीति । एतच्चता भाष्यगाथा अनुश्रित्य व्याख्यातं, यदुत-"तदसंखेजगुणाए सेढीए विरइगं पुरा कम्मं । समए समए खवगं कम्म सेलेसिकालेणं ।।१।। सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्च होइ चरमे सेलेसीए तणं वोच्छं ॥२॥ मणयगइजाइतसबायरं च पजत्तसुभगमाएजं । अन्नयरबेयणिज्जं नराउमुच्चं जसोनाम ।।३।। संभवओ जिणनाम नराणुपुवी य चरिमसमगंमि । १ हस्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते । तिष्ठति शैलेशीगतस्तावन्मात्रं ततः कालं ॥१॥ २ तदसङ्खयेयगुणया श्रेण्या विरचितं पुरा कर्म । समये समये क्षपयन् कर्म शैलेशीकालेन ॥१॥ सर्व क्षपयति तत्पुननिर्लेप किञ्चिदुपरितने समये ।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy