________________
ओपपातिकम्
॥४॥
दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणामभावमाह (8) 'खेमा' क्षेमा अशिवाभावात् । 'णिरुवावा' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थः । 'सुभिक्खा' सुष्टु-मनोज्ञाः प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा । अत एव पाषण्डिनां गृहस्थानां च
P पूर्णमदचै'चीसत्थसुहावासा' विश्वस्ताना-निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा (१०-१३), 'अणेगकोडिकुडुम्बि- मू०४ याइण्णनिव्वुयसहा' अनेकाः कोटयो द्रव्यसङ्ख्यानां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिराकीर्णा-सकुला या सा तथा, सा चासौ निवृता च-सन्तुष्टजनयोगात्सन्तोषवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्मधारयः (१४), 'नडनट्टगजल्लमल्लमुटियवेलम्बयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुम्बवीणियअणेगतालायराणुचरिया' नटाः-नाटकानां नाटयितारो नर्तका ये नत्यन्ति, अङ्किल्ला इत्येके, जल्ला वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्लाः प्रतीताः मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः विदूषकाः, कथकाः प्रतीताः, प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा, भाण्डा इत्यर्थः, आख्यायका ये शुभाशुभमाख्यान्ति, लङ्का महावंशानखेलकाः, मङ्खाः चित्रफलकहस्ता भिक्षुकाः, तूणइल्ला तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका-वीणावादकाः, अनेके च ये तालाचराः तालादानेन प्रेक्षाकारिणस्तैरनुचरिता आसेविता या सा तथा (१५), आरामुजाणअगडतलायदीहियवप्पिणिगुणोववेया' आरभन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि क्रीडन्ति, आरामाः, उद्यानानि पुष्पादिमवृक्षसकुलान्युत्सवादी बहुजनभोग्यानि, 'अगडत्ति' अवटा:-कूपाः, तडागानि प्रतीतानि, दीर्घिका सारणी, 'वप्पिणि'त्ति केदाराः, एतेषां ये गुणा रम्यतादयस्तैरुपपेता युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति, भवति (१६), क्वचित्पठ्यते 'नन्दणवणसन्निभप्पगासा' नन्दनवन-मेरोद्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति (१७)। ___उविड-विउल-गंभीर-खायफलिहा (१८), चक्कगय-मुसुदि-ओरोह-सयग्धि-जमल-कवाड-घण-दुप्पवेसा (१९), धणुकुडिल-वंकपागार-परिक्खित्ता (२०), कविसीसय-वट्टरइय-संठिय-विरायमाणा (२१), अद्यालय-चरिय-दार-गोपुर-तोरण
MEXXXXXXXXXXXXXXXXXXXXXXXXX
XXX
॥४॥