________________
ओपपा
नगर्यधि. सू०१
तिकम्
पणजणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीणेतिवाच्ये राजदन्तादिदर्शनादाकीणजनमनुष्येत्युक्तम् , आकीणों वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा (३), 'हलसयसहस्ससहिविकिट्ठलट्ठपण्णत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहस्रश्च शतसहस्रा-लक्षैः संकृष्टाविलिखिता विकृष्ट-दरं यावद् अविकृष्टा वा-आसमा लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात 'पण्णत्तात्ती योग्यीकृता वीजवपनस्य, सेतुसीमा-मार,सीमा यस्याः सा तथा, अथवा संकष्टादि-विशेषणानि सेतूनि-कुन्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां संकटन-संकर्षणेन विकृष्टा-दूरवर्तिन्यो लप्टाः (लपिताः) प्रज्ञपिताः-कथिताः सेतुसीमा यस्याः सा तथा, अनेन तजनपदस्य लोकबाहुन्यं क्षेत्रबाहुल्यं चोक्तम् (४), 'कुक्कुडसंडेयगामपउरा' कुक्कुटाः ताम्रचूडाः षण्डेयाः-पण्डपुत्रकाः तेषां ग्रामाः-समृहास्ते प्रचुराः-प्रभृताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान पोषयति पण्डाँच करोतीति (५), 'उच्छुजवसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया' एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्तं, न ह्य वंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति (६), गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम् , गवेलगा-उरभ्राः (७), 'आयारवन्तचेइयजुवइविविहसंण्णिविट्ठयहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवतायतनानि युवतिनां च-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि पाटकास्तानि बहुलानि बहूनि यस्यां सा तथा, 'अरिहन्तचेईयजणवयविसण्णिविठ्ठबहुले ति पाठान्तरं, तबाहच्चैत्यानां जनानां ब्रतिनां च विविधानि यानि सन्निविष्टानि-पाटकास्तैहुलेति विग्रहः, 'सुयागचित्तचेईयजूयसण्णिविठ्ठबहुला' इति च पाठा. न्तरम्, तत्र च सुयागा:-शोभनयज्ञाः चित्रचैत्यानि-प्रतीतानि यूपचितयो-यज्ञेषु यूपचयनानि द्यूतानि वा क्रीडाविशेषाश्चितयः तेषां सन्निविष्टानिनिवेशास्तैबहुला या सा तथा, (८), 'उक्कोडियगायगंठिभेयभडतक्करखंडरवखरहिया' उत्कोटा-उत्कोचा लञ्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिकाः गात्रात-मनुष्यशरीरावयव विशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपुट्टलिकां भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदका, 'उक्कोडियगाहगंठिभेय' इति च पाठान्तरं व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुन्तीत्येवंशीलाः खण्डरक्षा