________________
।।१३९॥
इड्ढी इव'त्ति ऋद्धि-परिवारादिसम्पत 'जुई इव'त्ति द्यति:-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोग उपप्रदर्शनार्थः, 'जसे इव'त्ति यशः-ख्यातिः, वाशब्दो विकल्पार्थः, क्वचित्पठ्यते-'उहाणे इ वा कम्मे । | इ वत्ति तत्रोत्थानम -ऊर्वीभवनं कर्म च-उत्क्षेपणादिका क्रिया 'बले इव'त्ति बले शारीरः प्राणः 'बीरिए इवा' वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरिक्कमे इ बत्ति पुरुषकार:-पुरुषाभिमानः स एव निष्पादितफलः पराक्रमः, 'हते'त्ति एवमेवेत्यर्थः 'ते णं देवा परलोगस्स आराहग'त्ति ते अकामनिर्जरालब्धदेवभवा व्यन्तराः 'परलोकस्य जन्मान्तरस्य निर्वाणसाधनानुकलस्य 'आराधका' निष्पादका इति प्रश्नः ?, 'नो इणद्वेत्ति नायमर्थः 'समढे'त्ति समर्थः-सङ्गत इत्युत्तरम्, अयमभिप्रायो-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः । स्युस्त एवावश्यंतयाऽऽनन्तर्येण पारम्पर्येण वा निर्वाणानुकलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः ५, १० ।'से जे' इत्यादिसूशं व्यक्त नवरं सेशब्दोऽथशब्दार्थः, अथशब्दश्चेह वाक्योपक्षेपार्थो, ग्रामादयः प्राग्वत , 'अंडुबद्धग'त्ति अण्डूनि अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धनविशेषाः “नियलबद्धग'त्ति निगडानि-लोहमयानि पादयोर्बन्धनानि 'हडिबद्धग'त्ति हडिः-खोटकः 'चारगबद्धगत्ति चारको-गुप्तिः 'मुरवच्छिन्नग'त्ति मुरजो-गलघण्टि का 'मज्झच्छिन्नग'त्ति मध्य-उदरदेशः 'वइकच्छच्छिन्नग'त्ति उत्तरासङ्गन्यायेन विदारिता:, 'हियउप्पाडियग'त्ति उत्पाटितहृदया आकृष्टकालेयकमांसा इत्यर्थः, 'वसणुप्पाडियग'त्ति उत्पाटितवृषणा आकृष्टाण्डा इत्यर्थः, 'तण्डलच्छिन्नगति तण्डुलप्रमाणखण्डैः खण्डिताः 'कागणिमंसखाइय'त्ति काकणीमांसानि तद्देहोद्धतश्लक्ष्णमांसखण्डानि तानि खादिताः 'उल्लंबियगत्ति अवलम्बितका: रज्ज्वा बद्धा गर्तादाववतारिताः, उल्लम्बितपर्यायास्तु नैते भवन्ति, उल्लम्बितानां वैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'लंबियग'त्ति लम्बितका:-तरुशाखायां बाही बद्धाः 'घंसियग'त्ति घर्षितकाश्चन्दनमिव दृषदि 'घोलीयय'त्ति घोलितका दधिघट इव पट इब वा 'फालियय'त्ति स्फालितकाः कुठारेण दारुवच्छाटकवद्वा, पुस्तकान्तरे 'पीलियग'त्ति पीडितका यन्त्ररिक्षुवदिति 'सूलाइयग'त्ति | शूलाचितकाः शूलिकाप्रोता; 'सूलभिन्नग'त्ति मस्तकोपरि निर्गतशूलिकाः 'खाहवत्तिय'त्ति क्षारेण क्षारे वा तो (मो)क्षकतरुभस्मादिनिर्मित
९॥