________________
॥१३७॥
कृतानि निन्दाद्वारेण प्रत्याख्यातानि अनागतकालभावोनि निवृत्तितः पापकर्माणि-प्राणातिपातादिपापक्रिया येन स तथा, तन्निषेधेनाप्रतिहतप्रत्याख्यातपापकर्मा, ततः पूर्वपदाभ्यां सह कर्मधारयः, अत एव 'सकिरिए' सक्रियः-कायिक्यादिक्रियायुक्त: 'असंवुडे' असंवृतः-अनिरुद्धन्द्रियः ‘एगंतदंडे' एकान्तेनैव-सर्वथैव दण्डयत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, 'एगंतबाले' सर्वथा मिथ्यादृष्टिः, अत एव । 'एगतसुत्ते' सर्वथा मिथ्यात्वनिद्रया प्रसुप्तः 'पापकर्म' ज्ञानावरणाद्यशुभं कर्म 'अण्हाइ' आनौति-आश्रवति बध्नातीत्यर्थः, हन्तेति कोमलामन्त्रणे प्रत्यवधारणाओं वा, 'उण्हाइ'त्ति आनौत्येव बध्नात्येवेत्युत्तरं, न ह्यसंयतादिविशेषणो जीवः कस्याश्चिदवस्थाबां कर्म न बध्नातीति १, ३ । तृतीयसूत्रे 'णण्णत्थ चरिममोहणिज्ज कम्मं वेदेमाणे वेअणिज्ज कम्मं बंधइ णो मोहंणिज्जति नन्नत्थत्ति-नवरं केवलमित्यर्थः, चरममोहनीयं सूक्ष्मसम्परायगुणस्थानके लोभमोहनीयसूक्ष्मकिट्टिकारूपं वेदयन् वेदनीयं बध्नाति, अयोगिन एव वेदनीयस्याबन्धकत्वात न पुनर्मोहनीयं बध्नाति, सूक्ष्मसम्परायस्य मोहनीयायुष्कवर्जानां षण्णामेव प्रकृतीनां बन्धकत्वात् यदाह--'सत्तविहबंधगा होंति पाणिणो आउवज्जियाणं तु । तह सुहमसंपराया छविहबंधा विणिद्दिठ्ठा ॥१॥ मोहाउयवज्जाणं पयडीणं ते उ बंधगा भणिया" ३, ५ । अथाभिधित्सितोपपातनिरूपणायाह-'जीवे ण'मित्यादि, व्यक्तं, नवरं 'उस्सण ति बाहुल्यत: 'कालमासे कालं किच्चत्ति मरणावसरे मरणं विधायेत्यर्थः ४, ६ । 'इओ चुए पेच्चति इत: स्थानान्मर्त्यलोकलक्षणाञ्चयुतो-भ्रष्ट: 'प्रेत्य' 'जन्मान्तरे देवः स्यात 'से केण?ण ति अथ केन कारणेनेत्यर्थः, 'जे इमे जीव'त्ति य इमे-प्रत्यक्षासन्नाः जीवा:-पञ्चेन्द्रियतिर्यङ्मनुष्यलक्षणाः, ग्रामागरादयः प्राग्वत्, 'अकामतण्हाए'त्ति अकामानां-निर्जराद्यनभिलाषिणां सतां तृण्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम्, 'अकाम-अण्हाणग-सीयायव-दंसमसग-सेयजल्लमल्ल-पंकपरितावेणं' इह स्वेद:-प्रस्वेदो याति च लगति चेति जल्लो-रजोमानं मल्ल:-कठिनीभूतः पङ्को-मल एव स्वेदेना
१ सप्तविबन्धका भवन्ति प्राणिन आयुर्बानामेव । तथा सूक्ष्मसम्परायाः षड्विधवन्धका विनिर्दिष्टाः ।।१।। मोहयुर्वानां प्रकृतीनां ते तु बन्धका भणिताः ।