________________
।। १३५ ।।
विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊड्ढजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कुटुकासनः सन्नपदिश्यते, ऊर्ध्वं जानुनी यस्य स ऊर्ध्वजानुः, 'अहोसिरे' अधोमुखो नोर्ध्वं तिर्यग्वा निक्षिप्तदृष्टिरिति भाव:, 'झाणकोट्टोवगए' ध्यानमेव कोष्ठो ध्यान - कोष्ठस्तमुपगतो यः स तथा यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्य - न्द्रियमनस्यधिकृत्य संवृतात्मा भवतीति भावः १ ।
तए णं से भगवं गोअमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले संजायसढे संजाय संसए संजायको हल्ले समुप्पण्णसड्ढे समुप्पण्णससए समुप्पण्णकोऊहल्ले उठाए उट्ठेइ उठाए उट्ठित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिवखुत्ती आयाहिणं पयाहिण करेति तिवखुत्तो आयाहिणं पयाहिणं करेता वंदति णमंसति वंदिता णमंसित्ता णञ्चासरणे फाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी २ ।
'जायसढे' जाता - प्रवृत्ता श्रद्धा- इच्छाऽस्येति जातश्रद्धः क्व ? - वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने, 'जायसंसए' जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्द्धारितार्थं ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं स त्वेवं तस्य भगवतो जातः, यथा - श्रीमन्महावीरवर्द्धमानस्वामिना प्रथमाङ्गप्रथम श्रुतस्कन्धप्रथमाध्ययने प्रथमोद्देशके आत्मन उपपात उक्तः, स किमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूप:, 'जायकोउहल्ले' जातं कुतूहलं कौतुकं यस्य स तथा कीदृशमुपपातं भगवान्वक्ष्यतीत्येवंरूपजातश्रवणौत्सुक्य इत्यर्थः, 'उप्पन्न - सड्ढे' प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्ध:, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदो ?, कविद्, अथ किमर्थं तत्प्रयोग: ?, उच्यते, हेतुत्वप्रदर्शनार्थः तथाहि उत्पन्नश्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, 'संजायसडढे' इत्यादौ च संशब्द: प्रकर्षादिवचनः, अपरस्त्वाह- जाता श्रद्धा प्रष्टुं यस्य स जातश्रद्धः कथं जातश्रद्धो ?, यस्माज्जातसंशयः, कथं संशय: अजनि ? यस्मात प्राक्कुतूहलं - किंविधो नामायमुपपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्न सज्जातसमुत्पन्न श्रद्धादय ईहा पायधारणाभेदेन वाच्या
न
SOXOX
| ।। १३५ ।।