________________
भगवतो धर्मप्ररूपणां दर्शयन्नाह-'धम्ममाइक्खइ इत्यादि पडिरूवे इत्येतदन्तम', इदं च व्यक्तं, नवरम् 'इदमेव' प्रत्यक्षं 'णिग्गंथे पावयणे' नैर्ग्रन्थं प्रवचन-जिनशासनं 'सच्चे' सद्भयो हितम् 'अणुत्तरे' नेतः प्रधानतरमन्यदस्तीत्यर्थः 'केवले' अद्वितीयं केवलिप्रती (णी) तं अनन्तं वा-अनन्तार्थविषयत्वात् 'पडिपुण्णे' प्रतिपूर्णमल्पग्रन्थत्वादिभिः प्रवचनगुणैः 'संशुद्ध' कषादिभिः शुद्धं सुवर्णमिव निर्दोषं गुणपूर्णत्वात् 'णेयाउए' नैयायिक-न्यायानुगतं प्रमाणाबाधितमित्यर्थः, 'सल्लकत्तणे मायादिशल्यकर्तनं, तद्भावितानां हि भावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमगे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे मुक्त:-सकलकर्मवियोगस्य हेतुः अथवा मुक्तिः-निर्लोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'णिज्जामग्गे' निर्याणस्य-अनावृत्तिकगमनस्य मार्गो-हेतुः, 'णिव्वाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्वस्य पन्थाः 'अवितह' सद्भूतार्थ 'अविसंधि' अविरुद्ध-पूर्वापरघट्टनं 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवा सर्वाणि दुःखानि प्रहीणानि यत्र सन्ति स तथा स मार्गः-शुद्धिर्यत्र तत्तथा, अत एव 'इहटिया जीवा सिझंति' विशेषतः सिद्धिगमनयाग्या भवन्ति अणिमादिमहासिद्धिप्राप्ता वा भवन्ति 'बुज्झति' केवलज्ञानप्राप्त्या 'मुच्चंति' भवोपग्राहिकर्मांशापगमात् 'परिणिव्वायंति' कर्मकृतसकलसन्तापविरहात्, विमुक्तं भवतीत्यत आह-'सव्वदुक्खाणमंतं करेंति' ४ ।
एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, महड्डीएसु जाव महासुखेसु दूरगइएसु चिरदिईएसु, ते णं तत्य देवा भवंति महड्ढोए जाव चिरट्टिईआ हारविराइयवच्छा जाव पभासमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा ५ । तमाइक्खइ एवं खलु चहि ठाणेहिं जीवा जेरइअत्ताए कम्मं पकरंति, जेरइअत्ताए कम्मं पकरेत्ता रइसु उववज्जंति, तंजहा-महारंभयाए महापरिग्गहयाए पंचिदियवहेणं कुणिमाहारेणं, एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाए गिअडिल्लयाए अलिअवयणेणं उक्कंचणयाए वंचणयाए, मणुस्सेसु पगतिभद्दयाए पगतिविणीतताए साणुक्के सयाए अमच्छरियताए, देवेसु सरागसंजमेणं संजमासजमेणं अकामणिज्जराए बालतबोकम्मेणं ६ । तमाइक्खइ,
॥१२९॥